________________
स्थानं-८,
४७३
वृ. अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह-'मागहे'त्यादि, मगधेषु भवं मागधंमगधदेशव्यवहतं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसहाम्नाणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्ते'त्ति क्वचित्पाठः तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, तथाहि॥१॥ “परमाणू तसरेणु रहरेणू अग्गयं च वालस्स।
लिक्खा जया य जवो अट्ठगुणविवद्धिया कमसो॥" तन्त्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊध्वरेण्वादि भेदा अनुयोगद्वाराभिहिता अनेनैव सङ्ग्रहीता दृश्याः, तथा पौरस्त्यादिवायुप्रेरितस्यति-गच्छतीति त्रसरेणुः, रथगमनोखातो रथरेणुरिति, एवं चाटौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वेसहे धनुषांगव्यतं, चत्वारिगव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनंस्यादितिप्रतिपादितं, तत्र यस्मिन् देशेषोडशभिर्धनुःशतैगव्यूतं स्यात्तत्रषड्भिः सहैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति ।।
योजनप्रमाणमभिधायाप्टयोजनतो जम्ब्बादीनांप्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह
मू. (७४७)जंबूणंसुदंसणा अट्ठजोयणाइंउद्धं उच्चत्तेणंबहुमझदेसभाए अजोयणाई विक्खंभेणं सातिरेगाइं अट्ठजोयणाइंसव्वग्गेणं पं०१, कूडसामली णं अट्ठजोयणाईएवं चेव २
वृ, 'जंबूण मित्यादि, जम्बू:-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्यानाम, साचोत्तरकुरूणां पूर्वार्द्धशीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्भवरवेदिकापरिक्षिप्तस्य द्विगव्यतोच्छ्रितसचत्रतोरणचतुर्दारस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामएयोजनायामविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, अट्ठजोयणाइ'मित्यादि अष्ट योजनान्योच्चत्वेन बहुमध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युद्वेधगव्यतिद्वयेनाधिकानीति भावःसर्वाग्रेण-सर्वापरिमाणेनेति, तस्याश्च चतः पूर्वादिदिक्षु शाखाः, तत्र पूर्वशाखायां॥१॥ “भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स ।
तिसु पासाया सालेसु तेसु सीहासणा रम्मा ।। ॥२॥ तेपासाया कोसंसमूसिया कोसमद्धविच्छिन्ना।
विडिमोवरि जिनभवणं कोसद्ध होइ विच्छिन्नं ।।
देसूनकोसमुच्चं जंबू अट्ठस्सएण जंबूणं। परिवारिया विरायइ तत्तो अद्धप्पमाणाहिं ॥"
-तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता॥१॥ "जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वनसंडं ।
चउरो दिसासुभवणा विदिसासुय होंति पासाया ।। ॥२॥ कोसपमाणा भवणा चउवावीपरिगया य पासाया ।
कोसद्धवित्थर कोसमूसियाऽनाढियसुरस्स ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org