SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ स्थानं-८, ४५५ ॥२॥ “नवितं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥ ॥३॥ जं कुणइ भावसल्लं अनुद्धियं उत्तमट्टकालंमि। दुल्लहबोहीअत्तं अनंतसंसारियत्तं वा ।।" इति चतुर्थं तथा एकमपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाह॥१॥ "उद्धरियसव्वसल्लो भत्तपरिन्नाऍ धणियमाउत्तो। मरणाराहणजुत्तो चंदगवेझं समाणेण ॥” इति, पञ्चममपि, एवं बहुममपि, एवं बहुत्वेनापि अनालोचनादवालोचनादौ वाऽनर्थोऽर्थश्च षष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् भाई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमं, शेषं सूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते त्यस्य पदत्रयस्यविवरणतया अवगन्तव्यं, तत्रमायी मायांकृत्वेति, इह कीशोभवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे 'नामए'त्ति सम्भाव-नायामलङ्कारे का अयआकरो-लोहाकरः यत्र लोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिलाधान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः-तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषाः नवरं तुषाः कोद्रवादीनां बुसं-यवादीना कडङ्गो नलः-शुषिरसरकारः दलानिपत्राणि सुण्डिकाः-पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्लयो वा सम्भाव्यन्ते तासां लिंछाणि-चुल्लीस्थानानि सम्भाव्यन्ते, उक्तंच वृद्धैः-"गोलियसोडियभंडियलिच्छाणिअग्नेराश्रयाः" अन्यैस्तु देशभेदलढ्याएतेपिष्टपाचकाग्न्यादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भण्डिका-स्थाल्यः त एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयं, लिंछानि तान्येवेति, कुम्भकारस्थापाको-भाण्डपचनस्थानं कवेल्लुकानि-प्रतीतानि तेषामापाकः-प्रतीत एव 'जंतवाडचुल्ली' इक्षुयन्त्रपाटचुल्ली लोहारंबरिसाणिवत्ति लोहकरस्याम्बरीषा-भ्राष्ट्रा करणानीति लोहकाराम्बरीषा इति, तप्तानि-उष्णानि समानि-तुल्यानि जाज्वल्यमानत्वात् ज्योतिषा-वह्निना भूतानि-जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं-पलासकुसुमंतत्समानानि रक्ततया उल्का इव उल्का-अग्निपिण्डास्तत्सहस्राणीतिप्राचुर्यख्यापकं विनिर्मुञ्चन्तिविनिर्मुञ्चन्तीतिभृशार्थे द्विर्वचनं अङ्गारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति २ 'अंतोअंतो' अन्तरन्तः 'झियायंति' मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दान्तिकस्त्वेवमेवेत्यादि, पश्चाचात्तापाग्निना मायतिजाज्वल्यते, 'अहमेसे'त्ति अहमेषोऽभिशङ्कये अहमेषोऽभिशङ्कय इति-एभिरहं दोषकारितया आशङ्कये-सम्भाव्ये इति, उक्तं हि॥१॥ "निचं संकियभीओ गम्मो सव्वस्स खलियचारित्तो। . साहुजणस्स अवमओ मओऽवि पुण दुग्गइंजाइ॥" अनेनानालोचकस्यायं लोको गर्हितो भवतीति दर्शितं, 'सेणं तस्से'त्यादिना पाठान्तरेण मायी णं मायी शंकट्ठ इत्यादिना वाउपपातो गर्हितो भवतीति दयते, 'कालमासे'त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं किच्चा मरणं कृत्वाअन्यतरेषुव्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारो'त्तिवचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषुपरिवारादिऋध्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy