________________
स्थानं -७,
मू. (६९६) बितिंदिताणं सत्तजातीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता ।
वृ. 'वेइंदियाण मित्यादि, जातौ-द्वीन्द्रियजातीयाः कुलकोट्यः तास्तथा ताश्चता योनिप्रमुखाश्च-द्विलक्षणसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वारकास्ताजातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात्, तासां शतसहस्राणि-लक्षाणीति, इदमुक्तं भवति-द्वीन्द्रियजातौ या योनयस्तव्यभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः तत्र चैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति ।
मू. (६९७) जीवाणं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा तं०- नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए एवं चिण जाव निजरा चेव ।
मू. (६९८) सत्तपतेसिताखंधा अनंता पन्नत्ता सत्तपतेसोगाढा पोग्गलाजाव सत्तगुणलुक्खा पोग्गला अनंता पन्नत्ता। वृ. शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववद्व्याख्येयेति ।।
स्थानं-७ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता अमयदेवसूरि विरचिता स्थानांग सूत्रे सप्तमस्थानस्य टीका परिसमाप्ता ।
(स्थान-८ ) व्याख्यातं सप्तममध्ययनमधुना सङ्घयाक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमार. भ्यते, तस्य चेदमादिसूत्रम्
मू. (६९९) अट्टहिं ठाणेहिं संपन्ने अनगारे अरिहति एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तते, तं०-सड्डी पुरिसजाते सच्चे पुरिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे धितिमं वीरितसंपन्ने ।
वृ. 'अट्ठही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-अनन्तरं पुद्गला उक्ताः, तेच कार्मणाः प्रतिमाविशेषप्रतिपत्तिमतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रसिद्ध एव, नवरं अष्टाभिः स्थानैःगुणविशेषैः सम्पन्नो-युक्तोऽनगारः-साधुरर्हति-योग्यो भवति ‘एगल्लत्ति एकाकिनो विहारोग्रामादिचर्या स एव प्रतिमा-अभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसम्पद्य-आश्रित्य णंइत्यलङ्कारे 'विहर्तु ग्रामादिषु चरितुं, तद्यथा
“सद्धित्ति श्रद्धा-तत्त्वेषु श्रद्धानमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकैरप्यचलनीयसम्यकत्वचारित्रमित्यर्थः, पुरुषजातं-पुरुषप्रकारः १,तथा सत्यंसत्यवादि, प्रतिज्ञाशूरत्वात, सद्भ्योहितत्वाद्वा सत्यं २, तथा मेधा-श्रुतग्रहणशक्तिस्तद्वत् मेधावि, अथवा मेराए धावतित्ति मेधावि-मर्यादावर्त्ति ३, तथा मेधावित्वाद्बहु-प्रचुरं श्रुतं-आगमः सूत्रतोऽर्थतश्च यस्य तद्बहुश्रुतं, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत्-समर्थं पञ्चविधकृततुलनमित्यर्थः, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org