SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ स्थानं-७,. ४४५ तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानियोजनानि दण्डं निसृजतिनिसृज्यचयथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथोक्तम् _ "वेउब्वियसमुग्धाएणं समोहन्नइ समोहणित्ता संखेजाई जोयणाई दंडं निसरइ २ त्ता अहाबायरे पुग्गले परिसाडेइ"त्ति, एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मापुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह-'मणुस्साणं सत्ते'त्यादि, ‘एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच्च समुद्घातादिकंजिनाभिहितं वस्त्वन्यथा प्ररूपयन्प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह मू. (६८८) समणस्स णं भगवओ महावीरस्स तित्यसि सत्त पवतणनिण्हगा पं०, तं०बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसिणं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, तं०-जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसिणं सत्तण्हं पवयणनिहगाणं सत्तुप्पत्तिनगरा होत्था, (तं०) वृ. 'समणे'त्यादि कण्ठ्यं, नवरंप्रवचन-आगमंनिहनुवते-अपलपन्त्यन्यथाप्ररूपयन्तीति प्रवचननिह्नवाः प्रज्ञप्ता जिनैः, तत्र 'बहुरय'त्तिएकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः-सक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवःप्रदेशएव येषांतेजीवप्रदेशास्त एवजीवप्रादेशिकाःअथवाजीवप्रदेशोजीवाभ्युपगमतो विद्यते येषांते तथा, चरमप्रदेशजीवप्ररूपिणइति हृदयं, तथा अव्यक्तं-अस्फुटवस्तु अभ्युपगमतो विद्यते येषांतेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धयइतिभावना, तथा समुच्छेदः-प्रसूत्यनन्तरं सामस्त्येन प्रकर्षणचछेदः समुच्छेदो-विनाशः समुच्छेदंब्रुवतइति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः, तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणइत्यर्थः, तथाजीवाजीवनोजीवभेदायोराशयः समाहतस्त्रिरािशितत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्मनस्कन्धबन्धवबद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयं, 'धम्मायरिय'त्तिधर्मः-उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तप्रधानाः प्रनायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्रजमाली क्षत्रियकुमारो, योहिश्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्ता पुरुषपञ्चशतीपरिवारोभगवाव्राजित आचार्यत्वं प्राप्तःश्रावस्त्यां नगर्यां तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः ? इतिविहितपरिप्रश्नः" संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्त- प्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्दिः प्ररूपयामास-यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy