SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ७/-/६८६ 'पसत्थमणे 'त्यादि, सूत्रसप्तकं सुगमं, नवरं प्रशस्तः- शुभो मनसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः -शुभचिन्तारूपः असावद्यः- चौर्यादिगर्हितकर्मानालम्बनः अक्रियः कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः-शोकादिबाधावर्जितः 'स्नु प्रश्नवण' इति वचनात् आस्नवः - आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधानास्नक्करः-प्राणातिपाताद्याश्रवणववर्जित इत्यर्थः, अक्षयिकरः प्राणिनां न क्षयेः व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां चप्रायः सध्शार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । ૪૪૪ आयुक्तं गमनं आयुक्तस्य- उपयुक्तस्य सँल्लीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानंऊध्धर्वस्थानं कायोत्सर्गादि 'निसीयणं' ति निषदनं उपवेशनं 'तुयट्टणं' शयनं 'उल्लङ्घनं' डेवनं देहल्यादेः प्रलङ्गनं - अर्गलादेः सर्वेषामिन्द्रियाणां योगा- व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनताकरणं सर्वेन्द्रिययोगयोजनता । 'अब्भासवत्तियं' ति प्रत्यासत्तिवर्त्तित्वं श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, 'परचंदाणुवत्तिय 'न्ति पराभिप्रायानुवर्त्तित्वं, 'कज्जहेउ' ति कार्यहेतोः, अयमर्थः कार्यं श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थो, विशेषेण विनये तस्य वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्यदुःखार्त्तस्य गवेषणं औषधादेरित्यार्त्तगवेषणं तदेवार्त्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा भूत्वा गवेषणं - सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता - अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता - आनुकूल्यमिति । विनयात्कर्मधातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह मू. (६८७) सत्त समुग्धाता पं० तं०-वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेउब्वियसमुग्धाते तेजससमुग्धाए आहारगसमुग्धाते केवलिसमुग्धाते, मणुस्साणं सत्त समुग्धाता पं० एवं चेव । वृ. 'सत्त समुग्धाए 'त्यादि, 'हन् हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च घातो-निर्जरा समुद्घातः, कस्य केन सहैकीभावगमनं ?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मावेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन धातः कथं ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकम्र्म्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च- “पुव्वकयकम्मसाडणं तु निज्ञ्जरा" इति स च वेदनादिभेदेन सप्तधा भवतीत्याहसप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातं इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकर्म्माश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसद्वेद्यशुभाशुभनामोच्चनीयचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्म्मपुद्गलशातं करोति, कषायसमुद्घा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy