________________
४३४
स्थानाङ्ग सूत्रम् ७/-/६६१
शस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे भोजनेऽधिके सति, तथा वेदना - नयनादिपीडा पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शे तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा 'आणापाणु' त्ति उच्छ्वासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति,
अथवा अध्यवसानमायुरुपक्रमकारणमितिः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयं, प्रथमैकवचनान्तत्वादध्यवसानादिपदानां, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेदः सोपक्रमायुषामेव नेतरेषामिति, आह-यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृत्याभ्यागमश्च स्यात्, कथं?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च
॥१॥
"कम्मोचक्कामिज्जइ अपत्तकालंपि जइ तओ पत्ता । अकयागमकयनासा मोक्खाणासासओ दोसा ।।" अत्रोच्यते यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जनस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च
119 11
"न हि दीहकालियस्सवि नासो तस्सानुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणी भोगो ॥ सव्वं च परसतया भुज्जइ कम्ममनुभागओ भइयं । तणावानुभवे के कयनासादओ तस्स ? ॥ किंचिदकालेवि फलं पाइज्जइ पच्चए य कालेणं ।
॥२॥
॥३॥
॥ ४ ॥
तह कम्मं पाइजइ कालेण वि पज्जए अन्नं ॥ हवा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । वितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं ||" इत्यादि
मू. (६६२) सत्तविधा सव्वजीवा पं०, तं०- पुढविकाइया आउ० तेउ० वाउ० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सव्यजीवा पं०, कण्हलेसा जाव सुक्कलेसा अलेसा ।
वृ. 'सत्ते' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च तके जीवाश्चेति सर्वजीवाः, संसारिमुक्ता इत्यर्थः, तथा 'अकाइय'त्ति सिद्धाः षड्विधकायाव्यपदेश्यत्वादिति, अलेश्याः सिद्धाः अयोगिनो वेति । अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह
मू. (६६३) बंभदत्ते णं राया चाउरंतचकवट्टी सत्त धणूई उड्डुं उच्चत्तेणं सत्त य वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा अधे सत्तमाए पुढवीए अप्पतिट्ठाने नरए नेरतितत्ताए उववन्ने ।
वृ. 'वंभदत्ते ' त्यादि सुगमं । ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोत्पन्नमल्लिवक्तव्यतामाह
भू. (६६४) मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अनगारियं पव्वइए, तं०
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International