________________
४३२
स्थानाङ्ग सूत्रम् ७/-/६५२ मू. (६५२) जंबुद्दीवे भारहे वासे आगामिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संतिमू. (६५३) मित्तवाहण सुभोमे य, सुप्पभे य सयंपभे।
दत्ते सुहुमे सुबंधूय, आगमेस्सिण होक्खती॥ वृ. नवरं 'आगमिस्सेण होक्खइत्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः । मू. (६५४) विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते हव्यमागच्छिसु।
वृ.तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इतिपूर्वदशविधा अभूवन् 'रुख'त्ति कल्पवृक्षाः ‘उवभोगत्ताए'त्तिउपभोग्यतया 'हच्वं' शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः.। मू. (६५५) मत्तंगतात भिंगा चित्तंगाचेव होति चित्तरसा।
मणियंगात अनियणा सत्तमगा कप्परुक्खा य॥ वृ. 'मत्तंगयाय'गाहा, 'मत्तंगया' इतिमत्तं-मदस्तस्य कारणत्वानमद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः-कारणभूतास्तदेववाऽङ्ग अवयवो येषांतमत्ताङ्गकाः,सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'भिंग'त्ति संज्ञाशब्दत्वाद् भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'चित्तंग'त्ति चित्रस्य-अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्तिचित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणियंग'त्ति मणीनां-आभरणभूतानामङ्गभूताः-कारणभूताः मणयो वा अङ्गानि-अवयवा येषां तेमण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अनियण'त्ति अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तप्रधाना वृक्षाः कल्पवृक्षा इति ।
मू. (६५६) सत्तविधा दंडनीती पं० २०-हक्कारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारते छविच्छेदे।
वृ. 'दंडनीइत्ति दण्डनं दण्ड:-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिःनयो दण्डनीतिः, 'हक्कारे'त्तिहइत्यधिक्षेपार्थस्तस्य करणं हक्कारः,अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्र, तेनैवासौ हतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थकुलकरकाले महत्वपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह च॥१॥ “पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया ।
__ पंचमछट्टस्स य सत्तमस्स तइया अभिनवा उ ।।" इति, तथा परिभाषणं परिभाषा-अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डलं-इङ्गितं क्षेत्रतत्र बन्धो-नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, चारकं गुप्तिगृहं 'छविच्छेदो' हस्तपादनासिकादिच्छेदः, इयमनन्तर चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org