________________
-
स्थानं -७,
४२१ मू. (६०२) सत्तमूलगोत्तापं०२०-कासवा गोतमा वच्छा कोच्छाकोसिता मंडवा वासिट्ठा, जे कासवाते सत्तविधापं०२०-तेकासवाते संडेल्लाते गोल्लातेवाला ते मुंजतिणो तेपद्वपेच्छतिणो ते परिसकण्हा, जे गोयमा ते सत्तविधा पं० तं०-ते गोयमा ते गग्गा ते भारदा ते अंगिरसा ते सक्कारभा ते भक्खरामा ते उदगत्ताभा; जे वच्छा ते सत्तविधा पं० तं०-ते वच्छा ते अग्गेया ते मित्तिया ते सामिलिणोते सेलतता ते अट्टिसैणा ते वीयकम्हा,
जे कोच्छा ते सत्तविधा पं० तं०-ते कोच्छा ते मोग्गलायणा ते पिंगलायणा ते कोडीणा ते मंडलिणो ते हारिता ते सोमया, जे कोसिआ ते सत्तविधा पं० तं०-ते कोसिता ते कच्चातणा ते सलंकातणा ते गोलिकातणा ते पक्खिकायणाते अग्गिचाते लोहिया, जे मंडवाते सत्तविहा पं० तं०-ते मंडवा ते अरिट्ठा ते समुता ते तेला ते एलावच्चा ते कंडिल्ला ते खारातणा जे वासिट्टा ते सत्तविहा पं० तं०-ते वासिट्टा ते उंजायणा ते जारेकण्हा ते वग्घावचा ते कोडिना ते सन्नी ते पारासरा।
वृ. सुगमश्चायं, नवरंगोत्राणि तथाविधैकेकपुरुषप्रभवामनुष्यसन्तानाः उत्तरगोत्रापेक्षया मूलभूतानि-आदिभूतानि गोत्राणिमूलगोत्राणि, काशे भवः काश्यः-रसस्तंपीतवानिति काश्यपस्तदपत्यानि काश्यपाः, मुनिसुव्रतनेमिवर्जा जिनाचक्रवादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योछऽभेदादेवं निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः-क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायण- पद्भवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्साः-शय्य- म्भवादयः, एवं कुत्सा-शिवभूत्यादयः “कोच्छं सिवभूई पिय" इति वचनात्, एवं कौशिकाः षडुलूकादयः, मण्डोरपत्यानि मण्डवाः, वशिष्टस्यापत्यानि वाशिष्टाःषष्ठगणधरार्यसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेशयत्वेन काश्यपा एवान्ये तु काश्यप- गोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तद्भव्याः । अयं च मूलगोत्रप्र-तिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह
मू. (६०३) सत्त मूलनया पं० -नेगमे संगहे ववहारे उजुसुते सद्दे समभिरूढे एवंभूते। वृ. सत्त मूले त्यादि, मूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, ॥१॥ यदाह- "एक्केको य सयविहो सत्त नयसया हवंति एवं तु ।
अन्नोऽविय आएसो पंचेव सया नयाणं तु॥" ॥२॥ तथा- “आवइया वयणपहा तावइया चेव हुँति नयवाया।
जावइया नयवाया तावइया चेव परसमय ।।" त्ति, तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषोनवय इति, तत्र 'नेगमे'त्ति नैकैमनिर्महासत्तासामान्यविशेषविशेषज्ञानैर्मिमीते मिनेति वा नैकमः, आह च॥१॥ "नेगाई माणाई सामन्नोभयविसेसनाणाई।
जं तेहिं मिणइ तो नेगमो नओ नेगमाणोत्ति ।।" इति, निगमेषु वा-अर्थबोधेषु कशलो भवो वा नैगमः, अथवा नैके गमाः-पन्थानो यस्य स नैकगमः, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org