SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ स्थानं - ७, ४१९ सेवनेन शोधिता वा अतिचारवर्जनने तदालोचनेन वा, 'तीरिय'त्ति तीरं पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, 'किट्टिय'त्ति कीर्त्तिता पारणकदिने अयमयं चाभिग्रहविशेषः कृत आसीद् अस्यां प्रतिमायां स चाराधिता एवाधुना मुत्कलोऽहमिति गुरुसमक्षं कीर्त्तनादिति, ‘आराहिय’त्ति एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता भवतीति । - प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवं - “उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं तु असई सम्मं उवओगपडियरियं ॥ गुरुदणसेसभोयणसेवणयाए उ सोहिथं जाण । पुत्रेवि धेवकालावत्थाणा तीरियं होइ || भोयणकाले अमुगं पञ्चक्खायंति भुंज किट्टिययं । आराहियं पयारेहिं संममेएहिं निट्टवियं ॥ इति, -सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह मू. (५९७) अहेलोगे णं सत्त पुढवीओ पं०, सत्त घनोदधीतो पं०, सत्त घनवाता सत्त तनुवाता पं० सत्त उवासंतरा पं०, एतेसु णं सत्तसु उवासंतरेसु सत्त तनुवाया पिट्ठिया, एतेसु णं सत्तसु तनुवातेसु सत्त धनवाता पइडिया, एएसु णं सत्तसु घनवातेसु सत्त घनोदधी पतिट्टिता, एतेसु णं सत्तसु घनोदधीसु पिंडलगपिहुणसंठाणसंठिआओ सत्त पुढवीओ पं० तं०- पढमा जाव सत्तमा, एतासि णं सत्तण्हं पुढवीणं सत्त नामधेज्जा पं० तं० - धम्मा वंसा सेला अंजणा रिट्ठा मघा माघवती, एतासि णं सत्तहपुढवीणं सत्त गोत्ता पं० तं०- रयणप्पभा सकरप्पभा वालुअप्पभा पंकप्पा धूमप्पभातमा तमतमा । 11911 ॥२॥ ॥३॥ वृ. 'अहेलोए' इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहाधिकं भवन्ति, उक्तं च 11911 “पढमा असीइसहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुज्जा ॥” इति अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्याबादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदघीनां बाहल्यं विंशतिर्योजनसहास्राणि घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आह च " सव्वे वीससहस्सा बाहल्लेणं धनोदधी नेया । · 119 11 - सेसाणं तु असंखा अहो २ जाव सत्तमिया ॥” इति, तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थानं - आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्र संस्थानसंस्थिताः, इदमुक्तं भवति सप्तमी सप्तरज्जुविस्तृता षष्ठयादयस्त्वेकैकरज्जुहीना इति, क्वचित्पाठः 'पिंडलगपिहुलसंठाणसंठिया' तत्र पिंडलगं -पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलपृथुलसंस्थानसंस्थिता' इति क्वचित्पाठः, स च व्यक्त एव, 'नामधेज' त्ति नामान्येव नामधेयानि, 'गोत' त्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy