________________
४१८
_स्थानाङ्ग सूत्रम् ७/-/५९६ साम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति, तृतीय त्वियंअन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्तः आचार्यार्थं तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्यं परिकर्म्म कुर्वतां, पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि इतरथोत्कुटुकोचा निषण्ण उपविष्टशेवा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरं यथाऽऽस्तुतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित्सूत्र पुस्तक एव दृश्यत इति ।
'सत्तसत्तिक्कय'त्ति अनुद्देशकतयैकसरत्वेन एककाः - अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सतैकक इति व्यपदिश्यते, तथैव नामत्वात्, एवं च ते सप्तेति, तत्र प्रथमः स्थानसपतैकको, द्वितीयोनैषेधिकीसप्तैककः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तैककः, षष्ठः पर क्रियासप्तैककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति ।
'सत्त महज्झयण' त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति-प्रथम श्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि तानि च - पुण्डरीकं १ क्रियास्थानं २ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति ।
'सत्तसत्तमियं' त्ति सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, सा चैकोनपञ्चाशता रात्रिन्दिवैःअहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति एतत्स्वरूपमेवम्
11911
“पडिमासु सत्तगा सत्त, पढमे तत्थ सत्तए । एक्क्कं गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ । अहवा एक्केक्कियं दत्तिं, जा सत्तेक्केक्कसत्तए । आएसो अत्थि एसोवि, सिंहविक्कमसन्निहो ॥ इत्यादि,
'अहासुत्तं' ति यथासूत्र-सूत्रनतिक्रमेण यावत्करणात् 'अहाअत्थं' यथार्थं निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, 'अहातचं' यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण अन्वर्थसत्यापनेनत्यर्थः 'अहाभग्गं' मार्गः क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, ‘अहाकप्पं' यथाकल्पं-कल्पनीयानतिक्रमेण प्रतिमासमाचारनतिक्रमेण वा 'सम्मं कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, 'फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'पालय'त्ति पुनः पुनरुपयोग - प्रतिजागरणेन रक्षिता, 'सोहिय'त्ति शोभिता तत्समाप्तौ गुर्वादिप्रदानशेषभोजना
Jain Education International
For Private & Personal Use Only
॥२॥
www.jainelibrary.org