SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४१४ स्थानाङ्ग सूत्रम् ७/-1५९३ अस्वी जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, छठे विभंगनाणे ६ । अहावरे सत्तमे विभंगनाणे जयाणं तहावरूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एततं वेततंचलंतं खुब्भंतं फंदंतं घट्टतं उदीरेंतं तं तंभावं परिणमंतं, तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने, सव्वमिणंजीवा, संतेगतितासमणा यामाहणावा एवमाहंसु - जीवा चेव अजीवा चेव, जे ते एवमाहंसुमिच्छंते एव माहंसु, तस्सणं इमे चत्तारिजीवनिकाया नो सम्ममुवगता भवंति, तं० - पुढविकाइयाआऊतेऊवाउकाइया, इच्चेतेहिं चउहिंजीवनिकाएहिं मिच्छादंडं पवत्तेइ सत्तमे विभंगणनणे ७। वृ. 'सत्तविहे'त्यादि, ‘सप्तविधं' सप्तप्रकार विरुद्धो वितथो वा अन्यथा वस्तुभङ्गोवस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसंतिएकस्यां दिशिएकयादिशा पूर्वादिकयेत्यर्थः 'लोकाभिगमो' लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, कियामात्रस्यैव-प्राणातिपातादेवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणंकर्म यस्य स क्रियावरणः, कोऽसौ ? - जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३, __ 'मुयग्गे'ति बाह्याभ्य-न्तरपुद्गलरचितशरीरोजीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गल- पर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थं ४, 'अमुदग्गे जीवे'त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद्अबाह्याभ्य-न्तरपुद्गलरचितावयवशरीरो जीव इत्यवसयवत्पञ्चमं ५, तथा 'रूवी जीवे'त्ति देवानां वैक्रियशरीर- बता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत षष्ठमिति ६, तथा 'सव्वमिणं जीव'त्ति वायाना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सङ्गग्रहवचनमेतत्। 'तत्थे'त्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं तत्थ त्ति तेषु सप्तसु मध्ये 'जयाणं ति यस्मिन् काले 'सेणं'ति इह तदेति गम्यते स विभंगी पासइत्ति उपलक्षणत्वाज्जानातीतिच, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वे'त्यादि, वा विकल्पार्थः, 'उड़ेजाव सोहम्मो कप्पो' इत्यनेन सौधर्मात्परतः किल प्रायोबालतपस्विनोनपश्यन्तीति दर्शितंतथाऽवधिमतोऽप्यधोलोकोदुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं,दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, 'एवं भवइति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष-शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशिलोकाभिगमइति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुः-अन्यास्वपिपञ्चसुदिक्षुलोकाभिगमो भवति, तास्वपितस्य विद्यमानत्वात्, येतेएवमाहुः यदुत-पञ्चस्यपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति १। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy