SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१२ स्थानाङ्ग सूत्रम् ७/-/५९२ - - व्याख्यातेवति, क्वचित्तु 'सव्वधम्मं जाणामि, एवंपि एगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपकामति १, तथा 'एगइय'त्ति एककान् कांश्चन श्रुतधमश्चिारित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधाश्चारित्रधर्मान् वा नोरोचयामि-नचिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्यभावादपक्रमामि भदन्त इति द्वितीयं २, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकिसामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थं स्वगणादपक्रमामीति तृतीयं ३, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थं ४, तथा 'जुहुणामित्ति जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त !-धर्माचार्य एकाकिनो गच्छनिर्गत्वाजिनकल्पिकादितया यो विहारो-विचरणंतस्य या प्रतिमाप्रतिपत्तिः-प्रतिज्ञासा एकाकिविहारप्रतिमा तामुपसम्पद्य-अङ्गीकृत्य विहर्तुमिति सप्तममिति ७। अथवा सर्वधर्मान्ोचयामि-श्रद्दधेअहमिति तेषांस्थिरीकरणार्थमपक्रमामि, तथा एककान् रोचयामिश्रद्दधे एककांश्च नोरोचयामीत्यश्रद्धितानांश्रद्धानार्थमपक्रामामीत्येनपदद्वयेन सर्वविषयाय देशविषयाय य सम्यग्दर्शनाय गणापक्रमणमुक्तं १ एवं सर्वदेशविषयसंशयविनोदसूचकेन 'सव्वधम्मा विचिकिच्छामी'त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा सर्वधर्मान्जुहोमी'ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनोसेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च॥१॥ “नाणट्ट दंसणट्ठा चरणट्ठा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरिया व नायव्वं ॥" इति, -तत्र ज्ञानार्थं॥9॥ "सुत्तस्स व अस्थस्स व उभयस्स व कारणा उसंकमणं । वीसज्जियस्स गमणं भीओ य नियत्तए कोइ।" इति, दर्शनप्रभावकशास्त्रार्थं दर्शनार्थं, चारित्रार्थं यथा - ॥१॥ “चरितट्ट देसि दुविहा, एसणदोसा य इस्थिदोसा य । गच्छंमि य सीयंते आयसमुत्थेहिं दोसेहिं ।।" इति, सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादिश्रुतं नास्त्यतस्तदध्यापनायशिष्यस्व गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुपृष्ट्वै विसर्जिततेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालापरतोऽविसर्जितोऽपिगच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयं, यतः॥१॥ "आयरियाईण भया पच्छित्तभया न सेवइ अकिञ्चं। वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥" तथा - “एगो इत्थीगंभो तेणादिभया य अल्लिययगारे। कोहादी च उदिन्न परिनिव्वावंति से अन्ने । त्ति, ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy