________________
४०६
स्थानाङ्ग सूत्रम् ६/-/५८५
"जइ तवसा वोदाणं संजम ओऽ नासवोत्ति ते कह नु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ।। इति : मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युद्ग्रहप्रश्नो
119 11
यथा
॥१॥ (यथा ) “सामन्नाउ विसेसो अन्नोऽणन्नो व होज जइ अन्नो । सोनत्थि खपुष्यंपिय णन्नो सामन्नमेव तयं ||" ति
'अनुयोगी' ति अनुयोगो - व्याख्यानं प्ररूपणेतियावत् स यत्रास्ति तदर्थं यः क्रियत इति भावो, यथा- 'चउहिं समएहिंलोगो' इत्यादिप्ररूपणाय 'कइहिंसमएही त्यादि ग्रन्थकार एव प्रश्नयति, 'अनुलोम' अनुलोमनाथ - अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणे' त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत् प्रश्न इत्यर्थः, स च गौतमादेः, यथा 'केवइकालेणं भंते! चमरचञ्चा रायहाणी विरहिया उववाएण' मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानप्रश्न इत्यर्थः, क्वचित् 'छव्विहे अड्डे' इति पाठस्तन्न संशयादिभिरर्थो विशेषणीय इति ।
सू. (५८६) चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिते उववातेणं । एगमेगे णं इंदाणे उक्कोसेणं छम्मासा विरहिते उचवातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं ।
वृ. इहानन्तरसूत्रे ऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति‘चमरचंचे’त्यादि, ‘चमरस्य’दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चाचञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्व्वतस्य दक्षिणेन तिर्यग सङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहाण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्व्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड्योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्वतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहाण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता - वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां पुण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं
'एगे' त्यादि, एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति । अधः सप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भतीति तद्वयवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् विरहितोपपातेन, यदाह
119 11
“चउवीस मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ ७ ॥ इति, सिद्धिगतावुपपातो-गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम्“एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा ।
विरहो सिद्धिगईए उब्वट्टणवज्जिया नियमा ||" इति
For Private & Personal Use Only
॥१॥
Jain Education International
www.jainelibrary.org