SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ स्थानाङ्गसूत्रम् ५/३/५०५ दोधारच्छेयणे । पंचविधे आनंतरिए पं० तं०-उप्पातयनंतरिते वितनंतरिते पतेसानंतरिते समतानंतरिए सामन्नानंतरिते । पंचविधे अनंते पं० तं०-नामनंतते ठवणानंतते दव्यानंतते गणणानंततेपदेसानंतते, अहवापंचविहेअनंततेपं० २०-एगंतोऽनंततेदुहतोनंतए देसविस्थारनंतए सव्ववित्थारानंतते सासयानंतते।। वृ. 'पंचविहे'त्यादि कण्ठ्यं, केवलं 'उप्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदोजीवादिद्रव्यस्य विभाग उत्पादच्छेदनं, तथा विय'त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा बन्धस्य-जीवापेक्षया कर्मणः स्कन्धापेक्षया तु सम्बन्धस्य छेदन-विनशनं बन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्धा छेदनं-विभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनं, उपलक्षणं चैतत्रिधाकारादीनां, अनेनच देशतःछेदनमुक्तं, अथवोत्पादस्य-उत्पत्तेः छेदनं-विरहो यथा नरकगतौ द्वादशमुहूर्ताः, व्ययच्छेदन-उद्वर्त्तनाविरहः, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदन-प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुरखङ्गचक्राद्यं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् ‘पंथच्छेयणे'त्ति पठ्यते, तत्र पथिच्छेदन-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः छेदनस्य च विपर्यय आनन्तर्यमिति तदाह-पंचविहे'त्यादि, आनन्तर्य-सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौजीवानामुत्कर्षतः असङ्ख्येयाः समयाः एवं व्यवस्थापि, प्रदेशानांच समयानांचतत्यतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमा सामान्यानन्तर्य, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्य, तच्चाष्टी समया इति । अनन्तरसूत्रे समयप्रदेशानामानन्तर्युक्तं, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह'पंचविहे'त्यादि सूत्रद्वयंप्रतीतार्थं, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथासमयभाषयावस्त्रमिति, स्थापनैवस्थापनयावाअनन्तकंस्थापनयावाअनन्तकंस्थापनान्तकंअनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरितं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकं, गणना-सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्घयेयविषयः सङ्ख्याविशेषो गणनानन्तकं, प्रदेशानां सङ्ख्येयानामनन्तकंप्रदेशानन्तकमिति, एकतःएकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रं, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्ययोरुचकापेक्षया पूर्वाधन्यतरदिपलक्षणोदेशस्तस्य विस्तारोविष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थ, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह मू. (५०६) पंचविहे नाणेपं० २०-आभिनिबोहियणनणेसुयनाणेओहिणाणे मणपञ्जवनाणे केवलनाणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy