________________
३७२
स्थानाङ्ग सूत्रम् ५/३/४९८ स्वेत्येवंप्रमाणः २९ , कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाण-श्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदं त्रीणि शतान्यां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४ २४, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरौ, 'अभिवहिए'त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः ३१... एवंविधेन मासेन द्वादशमास- प्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन-त्रीणि शतान्यहां त्रयशीत्यधिकानिचतुश्चत्वारिंशच द्विषष्टिभागाः ३८३"), इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चमिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धिताख्ये संवत्सरअधिकमासकः पततीति, प्रमाणसंवत्सरः पञ्चविधः,
तत्र'नक्षत्र' इति नक्षत्रसंवत्सरःसचउक्तलक्षणः, केवलंतत्रनक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तुदिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयतामात्रमिहतुप्रमाणमिति विशेषः, उऊ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैदिशभिः ऋतुमासैः सावनमासकर्ममासपर्यायैर्निष्पन्नः, षष्टयधिकाहोरात्रशतत्रयमान इति ३६०, 'आइच्चे'त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षटष्टयधिकाहोरात्रश- तत्रयमान इति ३६६, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाहमू. (४९९) समगं नक्खत्ता जोगंजोयंति समगं उदू परिणमंति।
नचुण्हं नातिसीतो बहूदतो होति नक्खत्ते॥ वृ. 'समगं'गाहा, समक-समतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपौर्णमास्यादितिथ्यासह सम्बन्धंयोजयन्ति-कुर्वन्ति, इदमुक्तभवतियानि नक्षत्राणियासुतिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तम्॥१॥ “जेट्ठो वच्चइ मूलेण सावणो धणिट्ठाहि।
उद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा" इति, तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्तिक्या अनन्तरं हेमन्तर्तुः पौष्याअनन्तरंशिशिरर्तुरित्येवमवतरन्तीति भावः, यश्चन-नैव अतीव उष्णं-धर्मोयत्रसोऽत्युष्णाः, न-नैवातिशीतः-अतिहिमः, बहूदकंयत्र सबहूदकः सच भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षण-लक्षितत्वानक्षत्रसंवत्सर ति, अस्यांचगाथायांपञ्चमाष्टमावंशकीपञ्चकलावितीयंविचित्रेति छंदोविद्भिरुपदिश्यते, 'बहुला विचित्त'त्ति गाथालक्षणात् पत्ति-पंचकलो गण इति। मू. (५००) ससिसगलपुण्णमासी जोतेती विसमचारनक्खत्ते।
कडुतो बहूदतो तमाहु संवच्छरं चंदं घृ. 'ससि' गाहा ससित्ति विभक्तिलोपात् शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि-यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्मावात्बहूदकश्च, दीर्घत्वंप्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतोब्रुवतेतद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org