SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० स्थानाग सूत्रम् ५/३/४९२ - पूजया हिता अपूजया त्वहिता इत्यर्थः ॥ श्रमणाः पञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा॥१॥ "भुजंति चित्तकम्मट्ठिया व कारुणियदाणरुइणोय। अवि कामगद्दभेसुविन नस्सए किं पुण जतीसु? " इति, एवमन्येऽपि तापसवनीयकादयो द्रष्टव्या इति। योऽयंवनीपक उक्तःससाधुविशेषः, साधुश्वाचेलोभवतीत्यचेलत्वस्यप्रशंसास्थानान्याह मू. (४९३) पंचहिं ठाणेहिं अचेलए पसत्ये भवति, तं०-अप्पा पडिलेहा १ लाघविए पसत्ये २ रूवे वेसासिते ३ तवे अणुन्नाते ४ विउले इंदियनिग्गहे ५। वृ, 'पंचही'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि-वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघो वो लाघवं तदेव लापविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं-अनिन्धं स्यात्, तथा रूपं-नेपथ्यं वैश्वासिक-विश्वासप्रयोजनमलिप्सुतासूचकत्वात्स्यादिति, तथा तपः-उपकरणसंल्लीनतारूपमनुज्ञातं-जिनानुमतं स्यात्, तथा विपुलो-महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीतवातातपादिसहनादिति। इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह मू. (४९४) पंच उक्कला पन्नत्ता तं०-दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सब्बुक्कले। वृ. 'पंचे' त्यादि सुगम, नवरं 'उक्कल'त्ति उत्कटा उत्कला वा, तत्र दण्डः-आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कट:-प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति-वृद्धिं यातियः सदण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं प्रभुतास्तेनाः-चौराः देशोमण्डलंसर्व-एतत्समुदय इति ।असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह मू. (४९५) पंच समितीतो पं० -ईरियासमिती भासा० जाव पारिठावणियासमिती। वृ. 'पंचे त्यादि सुगम, नवरंसम्-एकीभावेनेतिः-प्रवृत्तिः समितिःशोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः तत्र समितिरीर्यासमितिः, उक्तं च-"इर्यासमितिनाम रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषुप्रासुकविविक्तेषु युगमात्रष्टिना भूत्वा गमनागमनं कर्त्तव्य"मिति, तथा भाषणं भाषा तस्यां समिति षासमितिः, उक्तं च "भाषासमिति म हितमितासन्दिग्धार्थभाषणं" तथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तंच-- "एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धंग्राह्यम्" इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ताभवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघागजल्लानां परिष्ठापनिका-त्यागस्तत्र समिति सा तथेति, तत्रोच्चारः-पुरिषश्रवणं-मूत्रं खेल:-श्लेष्माजल्लोमलः सिंघानो-नासिकोद्भवः श्लेष्मा, अत्रापित एव सप्त भहा इति,। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy