________________
स्थानं ५, उद्देशक: -१
·
·
३१५
प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति, तथा सर्वस्मात् - सद्भावप्रतिषेधा १ सद्भावोद्भावन २ अर्थान्तरोक्ति ३ गर्हाभेदात् ४ कृतादिभेदाच्च अथवा द्रव्यतः सर्वधर्म्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे रात्र्यादिवर्त्तिनो वा भावतः कषायनोकषायादिप्रभवात् मृषा-अलीकं वदनं वादो मृषावादः तस्माद्विरमणं - विरतिरिति,
तथा सर्वस्मात् कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमुत्थात् अदत्तंस्वामिना अवितीर्णं तस्याऽऽदानं-ग्रहणमदत्तादानं तस्माद्विरमणमिति,
तथा सर्वस्मात् कृतकारितानुमति भेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु-सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरमणमिति,
तथा सर्वस्मात् कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे रात्र्यादिभवाद्वा भावतो रगद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति ।।
व्रतप्रस्तावात् 'पञ्चाणुव्वए' त्याद्यणुव्रतसूत्रं, स्फुटं चेदं, किन्तु अणूनि -लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च-" सव्वगयं सम्मत्तं सुए चरिते न पजवा सब्वे । देसविर पडुच्चा दोहवि पड- सेहणं कुज्जा" इति
119 11
अथवा अनु-महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि,
उक्तं च
"जइधम्मस्सऽ समत्थेजुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायानुकंपट्टा " इति
अथवा सर्वविरतापेक्षया अणोः - लघोर्गुणिनी व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूलः- परिस्थूल-वस्तुविषयोऽतिदुष्टविवक्षासमुद्भावास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चीर्या रोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा स्वदारसन्तोष- आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यं, तथा इच्छायाः धनादिविषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः ॥ इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंचवन्नेत्यादित्रयोदशसूत्रीमाह
मू. (४२४) पंचवन्ना पं० तं० - किण्हा नीला लोहिता हालिद्दा सुकिल्ला १, पंच रसा पं० तं० - तित्ता जाव मधुरा २, पंच कामगुणा पं० तं०- सद्दा रूवा गंधा रसा फासा ३, पंचहिं ठाणेहिं जीवा सज्जति तं० सद्देहिं जाव फासेहिं ४, एवं रांति ५ मुच्छंति ६ गिज्झति ७, अजोववज्रंति ८,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
119 11