________________
स्थानाङ्ग सूत्रम् ४/४/४००
३०८
एवं चेव, एवं विगलिंदियवज्रं जाव वेमाणियाणं ।
वृ. नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियया अभावात्, एवं 'विगलिंदियवज्रं ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि तेषां मिथ्याधटित्वात्, द्वीन्द्रियादीनाञ्च सासादनसम्यकत्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयं, तच्च सुगमं । मू. (४०१) चउहिं ठाणेहिं संते गुणे नासेज्जा, तं०- कोहेणं पडिनिसेवेणं अकयन्नुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा तंजहा - अब्भासवत्तितं परच्छंदानुवत्तितं कज्जहेउं कतपडिकतितेति वा ।
घृ. नवरं सतो - विद्यमानान् गुणान् नाशयेदिव नाशयेत् - अपलपति न मन्यते, क्रोधेन रोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनंन जनातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वभिनिवेशेन बोधविपर्यासेन, उक्तञ्च119 11 "रोसेण पडिनिवेसेण तहय अकयन्नुमिच्छभावेण । संतगुणेनासित्ता भाइ अगुणे असंते वा " इति
असतः-अविद्यमानानाम क्वचित्संतेत्ति पाठस्तत्र च सतो- विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो- हेवाको वर्णनीयासन्नता वा प्रत्ययो - निमित्तं यत्र दीपने तदभ्यासप्रत्ययं, दृश्यते ह्याभ्यासन्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुण्णानामेव ग्रहणमिति, तथा परच्छन्दस्य- पराभिप्रायस्यानुवृत्तिः- अनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहतोः-प्रयोजनननिमित्तंचिकीर्षितकार्यं प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते - उपकृते प्रतिकृतंप्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इतिवा' कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदञ्च गुणनाशनादि शरीरेण क्रियत इति शरीरस्योत्पत्तिनिर्वृत्तिसूत्राणां दण्डकद्वयं कण्ठ्यं चैतत्, नवरं क्रोधादयः कर्म्मबन्धहेतवः, कर्म्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति ।
मू. (४०२) नेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वैमाणियाणं, नेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० तं० - कोहनिव्वत्तिए जाव लोभनिव्यत्तिए, एवं जाव वेमाणियाणं ।
वृ. 'चउहिं ठाणेहिं सरीरे' त्याद्युक्तं, क्रोधादिजन्यकम्र्म्मनिर्वर्त्तितत्वात् क्रोधादिमिर्निवर्त्तितं शरीरमित्यपदिष्टं, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तु ष्पत्तिरिति । क्रोधादयः शरीरनिर्वृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्म्मस्येत्याह
यू. (४०३) चत्तारि धम्मदारा पत्रत्ता, तंजहा-खंती मुत्ती अजवे मद्दवे ।
वृ. 'चत्तारिधम्मेत्यादि, धर्म्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि उपायाः । क्षान्त्यादीनि धर्म्मद्वाराणीत्युक्तं, अथारम्भादीनि नारकत्वादिसाधनकर्म्मणो द्वाराणीति विभागतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org