________________
३०६
स्थानाङ्ग सूत्रम् ४/४/३९५
नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोप. लब्धकर्मपरमार्था काभ्यसविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह॥१॥ “उवओगदि}सारा कम्मपसंगपरिघोलणविसाला ।
___साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी ।।" इति, हैरण्यककर्षकादीनामिवेति, परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्यआत्मधर्मः सप्रयोजनमस्यास्तप्रधाना वेतिपारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह - ॥१॥ "अनुमानहेउदिटुंतसाहिया वयविवागपरिणामा ।
हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥" इति अभयकुमारादीनामिवेति । तथ मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहणं परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रकान्तार्थविशेषनिश्चयोऽवायः अवगतार्थविशेषधरणं धारणेति, उक्तञ्च॥१॥ “सामनत्थावगहणमोग्गहो भेयमग्गणमिहेहा।
तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ।।" इति, तथा अरञ्जरम्-उदकुम्भोअलञ्जरमितियप्रसिद्धंतत्रोदकंयत्तत्समानाप्रभूतार्थग्रहणोप्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्टितं चेति, विदरोनदीपुलिनादौजलार्थोगतःतत्र यदुदकंतत्समानाअल्पत्वादपरापरार्थोहनमतारसमर्थत्वात्झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमलप्मल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमानातुविपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्चप्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति।
म. (३९८) चउब्बिहा संसारसमावनगाजीवापं०२०- नेरइतातिरिक्खजोणीयामणुस्सा देवा, चउब्विहा सव्वजीवा पं० २० - मणजोगी वइजोगी कायजोगी अजोगी अहवा चउबिहा सव्वजीवा पं० २० -इत्थिवेयगा पुरेिसवेदा नपुंसकवेदगा अवेदगा अथवा चउब्विहा सब्बजीवा पं० त० - चक्खुदंसणी अचक्रवुवंसणी ओहिदंसणी केवलदसणी अहवा चउब्विहा सव्वजीवा प० तं० संजया असंजया संजयासंजया नोसंजयाणोअसंजया।
वृ. यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधानान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदकाः-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनं तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तदर्शनवन्तएकेन्द्रियादय इति।संयताः-सर्वविरताः असंयता-अविरताः संयतासंयता-देशविरताः जयप्रतिषेधवन्तः सिद्धा इति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org