________________
स्थानं ४,
·
- उद्देशक:- -४
३०१
ध्यस्वरूपत्वात् तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानः अगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्दित्येकः अन्यउत्तानः कारणवशाद्दर्शितधिकृतचेष्टत्वात् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् तृतीयस्तु गम्भीरो दैन्यादिवत्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति ।
तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथोत्तानं तथैव गम्भीरम्अगाधमवभासते सङ्कीर्णाश्रयत्वादिना तथा गम्भीरम् - अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना । तथा गम्भीरम्-अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तानःतुच्छ उत्तान एवावभासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः । तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदार्थन्तिकमवसेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिः- उदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिः समुद्रेष्वभावात् द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽ गमेनागाधत्वात् तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिः चतुर्थः सुज्ञानः ।
समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह
मू. (३८६) चत्तारि तरगा पं० तं०-समुद्दं तरामीतेगे समुद्दं तरइ समुद्दं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे ४, १, चत्तारि तरगा पं० तं० समुद्दं तरित्ता नाममेगे समुद्दे विसीतते समुहं तरेत्ता नाममेगे गोप्पते विसीतति गोपतितं ४, २
वृ. 'चत्तारि तिरगे' त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्रं समुद्रवद्दुस्तरं सर्वविरत्यादिकं कार्यं तरामि करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमंतरतिनिर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र प्रायमपि साधयतीति चतुर्थः प्रतीतः १ । समुद्रप्रायं कार्यं तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २ ।
-
मू. (३८७) चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे नाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पं० तं०-पुत्रे नाममेगे पुत्रे ४, चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुत्रोभासी पुत्रे नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी, एवं चत्तारि पुरिसजाया पं० तं० पुन्ने नाममेगे पुत्रोभासी ४, ।
चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुनरूवे पुन्ने नाममेगे तुच्छरूवे ४, एवामेव चत्तारि पुरिसजाया पं०, तं०- पुत्रे नामभेगे पुत्ररुवे ४, चत्तारि कुंभा पं० तं० - पुन्नेवि एगे पितट्टे पुन्नेवि एगे अवदले तुच्छेवि एगे पियट्टे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० तं० - पुत्रेवि एगे पितट्टे ४,
तहेव चत्तारि कुंभा पं० तं० - पुन्नेवि एगे विस्संदति पुत्रेवि एगे नो विस्संदति तुच्छेवि एगे विस्संदति तुच्छेवि एगे न विस्संदइ, एवामेव चत्तारि पुरिसजाया पं०- पुत्रेवि एगे विस्संदति ४, तहेव चत्तारि कुंभा पं० तं० - भिन्ने जज्जरिए परिस्साई अपरिस्साइ, एवामेव चउब्विहे चरिते पं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org