________________
-
स्थानं-१, - उद्देशकः
म. (१७) एगे जीव पाडिक्कएणं सरीरएणं।
वृ. 'एगे जीवे पाडिक्कएणंसरीएणं एकः केवलोजीवितवान्जीवकतिजीविष्यतिचेति जीवः-प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकंतदेव प्रत्येककं, दीर्धत्वादिप्राकृतत्वात्, तेन प्रत्येककेनशीर्यत इति शरीरं-देहः तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितः तदाश्रित एको जीव इत्यर्थः, अथवा णंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्तत इति वाक्यार्थः स्यादिति, इहच पडिक्ख एणं'ति कचित्पाठो द्दश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासांव्याख्यातुम शक्यत्वात्काञ्चिदेव वाचनांव्याख्यास्यामइति ॥ इह बन्धमोक्षादयआत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् ‘एगा जीवाणं इत्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह
मू. (१८) एगा जीवाणं अपरिआइत्ता विगुव्यणा ।
वृ. 'एगा जीवाणं अपरियाइत्ता विगुव्वणा' 'एगा जीवाणं' ति प्रतीतं अपरियाइत्त'त्ति अपर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान्पुद्गलान्या विकुर्वणा भवधारणीयवैक्रियशरीर चनालक्षणा स्वस्मिन् २ उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वाद्मवधारणीयस्येति, सकलवैक्रियशरीरापेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसोयते?,येनेह सूत्रे अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात्, तथाहि-“देवे णं भंते ! महिड्डिए जाव महानुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्वित्तए?, गोयमा ! नोइणढे समठे, देवेणंभंते! बाहिरएपोग्गले परियाइत्तापभू?, हंतापभू"त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥
मू. (१९) एगे मने
वृ. 'एगे मने"त्ति मननं मनः औदारिकादिशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याजीवव्यापारो, मनोयोगइतिभावः, मन्यतेवाऽनेनेतिमनो-मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपिसंज्ञिनांवाअसङ्ख्यातत्वादसङ्घयातभेदमप्येकंमननलक्षणत्वेन सर्वमनसामेकत्वादिति
मू. (२०) एगा वई।
६. 'एगा वइत्ति वचनं वाक्-औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति
मू. (२१) एगे कायवाया।
वृ. 'एगे कायवायामे'त्तिचीयत इति कायः-शरीरंतस्य व्यायामोव्यापारः कायव्यायामः औदरिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपिजीवानन्तत्वेनानन्तभेदोऽपिवाएतएव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only