________________
२७२
स्थानाङ्ग सूत्रम् ४/३/३५२ वृ. 'चत्तारि त्यादि, ह्रिया-लजया सत्त्वं-परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स हीमनःसत्त्वः, चलम्-अस्थिरंपरीषहादिसम्पाते ध्वंसात् सत्वं यस्य स चलसत्त्वः, एतद्विपर्ययात स्थिरसत्त्व इति । स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं
मू. (३५३)चत्तारिसिञ्जपडिमाओपं०, चत्तारिवत्थपडिमाओपं०, चत्तारिपायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं०।
वृ. चत्तारिसिजे त्यादि, सुगमं, नवरं शय्यतेयस्यांसाशय्या-संस्तारकः तस्याः प्रतिमाअभिग्रहाःशय्याप्रतिमाः, तत्रोद्दिष्टंफलकादीनामन्यतमत् ग्रहीष्यामिनेतरदित्येका, यदेवप्रागुद्दिष्टं तदेव यदि द्रक्ष्यामितदा तदेवग्रहीष्यामि नान्यदिति द्वितीया, तदपियदि तस्यैव शय्यातरस्य गृहे भवतिततोग्रहीष्यामि नान्यतआनीयतत्रशायिष्य इतितृतीया, तदपिफलकादिकंयदियथासंस्तृतमेवास्तेततोग्रहहीष्यामिनान्यथेतिचतुर्थी, आसुचप्रतिमास्वाद्ययोःप्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तरगतानं तु चतस्रोऽपि कल्पन्त इति,
वस्त्रप्रतिमा-वस्त्रग्रहणविषयेप्रतिज्ञाः, काप्पासिकादीत्येवमुद्दिष्टंवस्त्रंयाचिष्ये इतिप्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परभुक्तप्रायंवस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकंग्रहीष्यामीतिचतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्यतथा प्रेक्षितं २ तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्र याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी,स्थानंकायोत्सर्गाद्यर्थंआश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिभिक्षोरेवंभूतोऽभिग्रहोभवाति यथा-अहमचित्तस्थानमुपाश्रयिष्यामितत्रचाकुञ्चनप्रसारणादिकांक्रियांकरिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथातत्रैवस्तोकपादविहरणंसमाश्रयिष्यामीतिप्रथमा प्रतिमा, द्वितीया त्वकुञ्चनप्रासारणादिक्रियामवलम्बनंच करिष्येन पादविहरणमिति,तृतीयात्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्रत्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं
मू. (३५४) चत्तारिसरीरगाजीवकुडापं०२०-वेउविएआहारएतेयए कम्मए, चत्तारि सरीरंगा कम्मुम्मीसगा पं० २०-ओरालिए वेउब्बिए आहारते तेउते।
.'चत्तारित्यादि व्यक्तं, किन्तुजीवेनस्पृष्टानि व्याप्तानिजीवस्पृष्टानि,जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मुम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीयुक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं
मू. (३५५) चउहिं अस्थिकाएहि लोगे फुडे पं० त०-धम्मत्यिकारणं अधम्मत्थिफाएणं जीवस्थिकारणं पुग्गलस्थिकारणं, चउहिं बादरकातेहिं उवामाणेहिं लोगे कुडे पं० त०पुढविकाइएहि आउ० पाउ० वणस्सइकाइएहिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org