SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, उद्देशक:-३ - २७१ आकीर्णो गुणवान् आकीर्णतया गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति - प्रवर्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया - गलितया वहति, अन्यस्तु खलुङ्कः आरोहक गुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दान्तिका योज्याः, सूत्रे तु क्वचित्रोक्ताः, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्द्धिकसंयोगैर्दशैव प्रकन्यकध्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिक पुरुषसूत्राणि भवन्तीति, नवरं जयः पराभिभव इति, सिंहतया ऊर्जवृत्त्या निष्कान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, श्रृगालतया - दीनवृत्त्येति । पूर्वं पुरुषाणा - मश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह मू. (३५०) चत्तारि लोगे समा पं० तं० - अपइट्टाणे नरए १ जंबुद्दीवे दीवे २ पालते जाणविमाणे ३ सव्यट्ठसिद्धे महाविमाणे ४, चत्तारि लोगे समा सपक्खि सपडिदिसिं पं० तं०सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपन्भारा पुढवी । वृ. ' चत्तारी' त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तभ्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्त्ती, स च योजनलक्षं, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वा गमनाय मविमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यमिति । चत्वारो लोके समा भवन्ति, कथमिहत्याह-'सपक्खि सपडिदिसं 'ति समानाः पक्षाः - पार्वा दिशो यस्मिन् तत्सपक्षं इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद्यथा भवत्येवं समा भवन्तीति, सध्शाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः - कालस्तदुपलक्षितं क्षेत्रं समय क्षेत्रं मनुष्य क्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद् - अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः उच्छ्रयादिलक्षणो यस्यां सेषत्प्राग्भारा । ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह मू. (३५१) उडलोगे णं चत्तारि बिसरीरा पं० तं०- पुढविकाइया आउ० वणरसइ० उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० तं०-एवं चेव, एवं तिरियलोएवि ४ । वृ. 'उड्डे' त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात्, 'ओराला तस' त्ति उदाराः स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामन्तरभवे सिद्धेरभावाद्, उक्तञ्च- ''विगला लभेज विरई नहु किंचि लभेज सुहुमतसा" इति । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरलतिदेशसत्रे, गतार्थेइति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुषं भेदैराह मू. (३५२) चत्तारि पुरिसजाया पं० तं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते विरसत्ते । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy