________________
स्थानं ४, - उद्देशक: ३
-
२६०
दिव्यमाणुस्सए कामभोगेनो आसाएति जाव नो अभिलसति दिव्यमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति नो विणिघातमावज्रति तच्चा सुहसेज्जा ३, अहावरा चउत्था सुहसेजा-से गं मुंडे जाव पव्वतिते तस्स णं एवं भवति- जइ ताव अरहंता भगवंतो इट्टा आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई वडलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाइं तवोकम्पाइं पडिवज्जति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेणं नो सम्म सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणरस अनहियासेमाणस्स किं मन्त्रे कजति ?, एतसोमे पावे कम्मे कञ्जति, ममंचणं अब्भोवगमिओ जाव सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्त्रे कजति ?, एगंतसो मे निजरा कज्जति, चउत्था सुहसेजा ४ ।
वृ. ' चत्तारी 'त्यादि, चतनः चतुः सङ्ख्या दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतोऽ तथाविघखट्वादिरूपाः भावतस्तुदुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धानं १ परलाभप्रार्थना २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताः प्रज्ञप्ताः, 'तत्रे' ति तासु मध्ये 'से' इति स कश्चित् गुरुकर्म्मा अथार्थो वा अयं स च वाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वञ्च प्रकटादित्वादिति शङ्कितः- एकभावविषयसंशययुक्तः काङ्क्षितो-मतान्तरमपि साध्वितिबुद्धिः विचिकित्सितः फलं प्रति शङ्कावान् भेदसमापन्न-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धते-सामान्येनैवमिदमति नो प्रत्येति- प्रतिपद्यते प्रीतिद्वारेण नो रोचयति-अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनः चित्तमुच्चावचम् - असमञ्जसं निर्गच्छति - याति करोतीत्यर्थः, ततो विनिघातं धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभः - अन्नादे रत्नादेर्वा तेन आशां करोतीत्याशयति न नूनं मे दास्यतीत्येवमिति आस्वादयति वा लभते चेत् भुङ्कत एव स्पृहयतिवाञ्छयति प्रार्थयति-याचते अभिलषति-लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठया, अगारवासो-गृहवासस्तमावसामि - तत्र वर्त्ते सम्बाधनंशरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्द्दनविशेषः परिमर्द्दनं तु-पिष्टादेर्मलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् गात्राभ्यङ्गः - तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनम् अङ्गधावनमेतानि लभे न कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी ।
दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्याः, नवरं 'हट्ठ' त्ति-शोकाभावेन हृष्टा इव हृष्टा अरोगा - ज्वरादिवर्जिताः बलिकाः - प्राणवन्तः कल्पशरीराः पटुशरीरा अन्यतराणि - अनशनादीनां मध्ये एकतराणि उदाराणि आंशसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपत्रत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणितपःक्रियाः प्रतिपद्यन्ते - आश्रयन्ति, 'किमंग पुण'त्ति किं प्रश्ने अत्त्यात्मामन्त्रणेऽलङ्कारे वा 'पुन 'रिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी साचासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-