________________
स्थानं-१, - उद्देशकः
तत्र न तावत् पूर्वमात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा यो उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, अथासावात्मा नित्यमुक्तएव तर्हि किं मोक्षजिज्ञासया?,
बन्धाभावेच मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापिकर्मणः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न चयुगपदुत्पत्तौ सत्यामयंक"कम्र्मेदमितिव्यपदेशोयुक्तरूपः,सव्येतरगोविपाणवदिति, अथादिरहितो जीवकर्मयोग इतिपक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोष अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्मवियोग' इति, तदयुक्तम्, अनादित्वेयऽपि संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, यदाह॥१॥ "जह वेह कंचनोवलसंजोगोऽनाइसंतइगओऽवि।
वोच्छिाइ सोवायं तह जोगो जीवकम्माणं ति, तथा अनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्कुरसन्तानवत्, आह च॥१॥ “अन्नतरमणिव्वत्तियकजं बीयंकुराण जं विहयं ।
___तत्थ हओ संताणो कुक्कु डियं डाइयाणं च "त्ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाहमू. (१०) एगे मोक्खा
वृ. 'एगेमोक्खे' मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च-'कृत्स्नकर्मक्षयान्मोक्षः' सचैको ज्ञानावर-णादिकपेिक्षयाऽष्टाविधोऽपि मोचनसामान्यात्मुक्तस्य वा पुनर्मोक्षाभावत् ईषत्राग्भारा- ख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचन-सामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनआदित्वाञ्जीवाकाशसंयोगवदिति कथं मोक्षसम्भवः ?, कर्मवियोगरूपत्वादस्य, अनोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाञ्चन-संयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपिजीवकर्मयोगः, सम्यग्दर्शन-ज्ञानचारित्रैः सपर्यवसानो भविष्यति, जीवकर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिप-र्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्यादिपर्यायेभ्यो भिन्नो नाम न कश्चिञ्जीवो, नारकादय एवपर्यायाजीवः, तदनन्तरत्वादिति संसाराभावे जीवाभाव एवं नारकादिपर्यायस्वरूपवदित्य-सत्पदार्थो मोक्ष इति, आह च॥१॥ "जं नारगादिभावो संसारो नारगाइभिन्नो य।
को जीवो तं मन्नसि? तन्नासे जीवनासोत्ति" । अत्र प्रतिविधीयते-यदुक्तम् 'नारकादिपर्यायसंसाराभावेसर्वथाजीवाभाव एवानर्थान्तरत्वान्नारकादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेम्नो मुद्रिकायाश्चानान्तरत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमंविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org