SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्थानाग सूत्रम् ४/२/३१० मू. (३१०) तमुक्कायस्सणंचत्तारिनामधेजा पं०२०-तमितिवातमुक्कातेति वाअंधकारेति वामहंधकारेति वा । तमुक्कायस्सणंचत्तारिनामधेजा पं० तं०-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमुक्कायस्स णं चत्तारि नामधेजा पं० २०-वातफलिहेति वा वातफलिहखोमेति वा देवरनेति वा देववूढेति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति तं०-सोधम्मीसाणं सणंकुमारमाहिदं। वृ.तथा तमस्कायं तम इत्यादिभिः शब्दैः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह-'तमुक्काये त्यादि सूत्रत्रयं सुगम, नवरंतमसः-अप्कायपरिणामरूपस्यान्धकारस्य कायःप्रचयस्तमस्कायो,योह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्यबाह्यवेदिकान्तादरुणोदाख्यं समुद्र द्विचत्वारिंशद्योजनसहाण्यवगाह्योपरितनाजलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योर्द्धमपिचब्रह्मलोकस्य रिष्ठं विमानप्रस्तटंसम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरुपत्वादितिरुप्रदर्शने वा विकल्पे तमोमात्ररूपताभिधायकान्याधानि चत्वारि नामधेयानि, तथाऽपराणिचत्वार्येवात्यन्तिकतमोरुपताभिधायकानीति, लोके अयमेवान्धकारोनान्यो ऽस्तीश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपितत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि वातस्य परिहननात् परिघः-अर्गला, परिघ इवपरिघः, वातस्यपरिघो वातपरिघः, तथा वातंपरिघवत्क्षोभयतिहतमार्गकरोतीति-वातपरिघक्षोभः, वातएव वा परिघस्तंक्षोभयति यःसतथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघोदेवपरिक्षोम इतिचाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद्यः स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इवयोदुरधिगम्यत्वात्स देवव्यूहइति, तमस्काय-स्वरूपप्रतिपादनायैव 'तमुक्काये ण'मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपअरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च-“तमुक्काए गंभंते! किंसंठिए पन्नते?,गोयमा! अहे मल्लगमूलसंठिए उपिंकुक्कुडपंजरसंठिए पन्नत्ते" त्ति ॥ अनन्तरं तमस्कायोवचनपर्यायैरुक्तोऽधुनाअर्थपर्यायैः पुरुषंनिरूपया पञ्चसूत्री गदिता मू. (३११)चत्तारिपुरिसजातापं०तं०-संपागडपडिसेवी नाममेगेपछत्रपडिसेवी नाममेगे पडुप्पननंदी नाममेगे निस्सरणनंदी नाममेगे। । चत्तारि सेनाओ पं० तं०-जतित्ता नाममेगे नो पराजिणित्ता पराजिणित्ता नामभेगे नो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता २ एवामेव चत्तारि पुरिसजाता पं० २०-जतिता नाममेगे नो पराजिणित्ता ४,३॥ चत्तारि सेनाओ पं० तं०-जतितानामंएगाजयईजइत्तानाममेगापराजिणतिपराजिणित्ता नाममेगा जयति पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारिपुरिसजाता पं० तं०. जइत्ता नाममेगे जयति ४,५/ वृ. सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव-अगीतार्थप्रत्यक्षमेव प्रतिसेवते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy