________________
॥१॥
स्थान-१, - उद्देशकः
१९ मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया एफपथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान् एव वक्ष्याम इति ।
अक्रियावत्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगमतमतो भुजिक्रियानिवर्तनसामर्थ्य सतिभोक्तृत्वमुपपद्यते तदेव च क्रियावत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुङ्गे प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात्प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपायाबुद्धेरेव सुखाद्यर्थप्रतिबिम्बननात्मनः,तर्हिनास्य भोगः तदवस्थतवात्तस्येति, अत्रापिबहुवक्तव्यंतत्तुस्थानान्तरादवसेयमिति।उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह
मू. (५) एगे लोए।
वृ, “एगे लोए' एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यागादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्
“धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम्। तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्" इति, __अथवा लोको नामादिरष्टधा, आह च“नामं ठवणादविए खित्ते काले भवे य भावे य॥
पज्जवलोए य तहा अट्टविहलोयनिक्खेवो "त्ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकं, काललोकः समयावलिकादिःस, भवलोको नारकादयः स्वस्मिन् २ भवेवर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति ।।
लोकव्यवस्थाह्यलोके तद्विपक्षभूते सति भवतीति तमाहमू. (६) एगे अलोए।
वृ. 'एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात् नत्वालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननुलोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपिबाधकप्रमाणाभावात्सम्भावयामोयोऽयंपुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत् इति, उच्यते, अनुमानादिति, तच्चेदंविद्यमानविपक्षोलोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद्व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीतिद्रष्टव्यं, यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपवाच्यश्चलोकस्तस्मात् सविपक्ष इति, यश्चलोकस्यविपक्षः सोऽलोकस्तस्मादस्त्यलोकइति, अथ नलोकोऽलोकइतिघटादीनामेवान्यतमो भविष्यतिकिमिह वस्त्वन्तरकल्पनयेति?,नैवं, यतो निषेधसद्मावानिषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः सचाकाशविशेषोजीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एवगम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च॥१॥ "लोगस्सऽस्थि विवक्खो सुद्धत्तणओघडस्स अघडोव्व ।
स घडादी चेव मती न निसेहाओ तदनुरूवो"। ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org