________________
स्थानं ४, उद्देशक:- 9
·
२१३
वृ. 'अत्थिकाय'त्ति अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्य-मूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं, रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तत्पर्युदासादरूपिणः - अमूर्त्ताइति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रं
मू. (२६७) चत्तारि फला पं० तं०-आमे नामं एगे आममहुरे 9 आमे नामंएगेपक्कमहुरे २ पक्कै नाममेगे आममहुरे ३ पक्के नाममेगे पक्कमहुरे ४, एवामेव चत्तारि पुरिसजाता पं० तं०-आमे नाममेगे आममहुरफलसमाणे, ४
वृ. आमम् अपक्वं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुरं प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-वयः श्रुताभ्यामव्यक्तः आममधुरफलसमानः, , उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः- पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्वेऽन्यो वयः श्रुताभ्या परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्वमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह
मू. (२६८) चउव्विहे सच्चे पं० तं० काउज्जयया भासुज्जयया भावजयया अविसंवायणाजोगे, चउव्विहे मोसे पं० तं०-काय अनुज्जुयया भासअनुज्नुयया भावअनुज्नुयया विसंवादणाजोगे, चउव्विहे पणिहाणे पं० तं०-मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं नेरइयाणं पंचिंदियाणं जाव वेमाणियाणं २४, चउव्विहे सुप्पणिहाणे पं० तं०-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चउव्विहे दुप्पणिहाणे, पं० तं० मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं २४
घृ. 'चउव्विहे सच्चे' इत्यादीनि गतार्थानि, नवरमृजुकस्य अमायिनो भावः कर्म्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना तद्विपक्षेण योगः-सम्बन्धोऽ विसंवादनायोग इति, 'मोसे' त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणिधानंप्रयोगः, तत्र मनसः प्रणिधानम् - आर्त्तरौद्रधर्म्मादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानंप्रयोग उपकरणप्रणिधानं ।
'एव' मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना मेवमेवेति, एकेन्द्रियादीनां मनः प्रभृतीनासम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानञ्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनः प्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org