SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ स्थानाङ्ग सूत्रम् ४/१/२६४ ३ येसु ३ निजरेंसु निजेरेति, निज्जरिस्संतिाव वैमाणियाणं, जावमेक्कैक्के पदे तिनि २ दंडगा भाणियव्वा, जाव निज्जरिस्संति। वृ. 'जीवाण' मित्यादिगतार्थं, नवरम् चयनं कषायपरिणतस्य कर्म्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं प्रथमस्थितौ बहुतरं कर्म्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्जति, उक्तं च - ‘“मोत्तूण सगमबाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावक्कोसंति सव्वेसिं ॥" इति, 119 || M बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणम्- अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं-स्थितिक्षयादुदयप्राप्तस्य कर्म्मणं उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा-कर्म्मणोऽकर्म्मत्वभवनमिति, इह च देशनिर्ज रैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनां च तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता सङ्ग्रहगाथा"आयपइट्ठिय १ खेत्तं पडु २ नंतानुबंधि ३ आभोगे ४ । चिणउवचिणबंध उदीर वेय तह निजरा चेव ॥ १ ॥” इति । अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्मवतीति प्रतिमासूत्रत्रयं, मू. (२६५) चतारि पडिमाओ पं० तं० - समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पं० तं० - भद्दा सुभद्दामहाभद्दा सव्वतोभद्दा, चत्तारि पडिमातो पं० तं० - खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वइरमज्झा 11911 वृ. तद् द्विस्थानकाघीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसर्त्तव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः श्रुतं चारित्रं च तद्विषया प्रतिमा-प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषया प्रतिमा- अभिग्रहः समाधिप्रतिमा एवमन्या अपि, नवरमुपधानं तपः विवेकः - अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः 'विउरसग्गे' त्ति कायोत्सर्गः । तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च ध्ष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाण: कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरिय समाप्यते यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्व्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा - प्रश्रवणप्रतिज्ञा सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्तिकवलादिभिराद्यन्तयोर्हीना मध्येच वृद्धेति, वज्रमध्या तु याऽद्यन्तवृद्धा मध्ये हीना चेति । प्रतिमाश्च जीवास्तिकाये एवेति नद्विपर्ययस्वरूपाजीवास्तिकायसूत्र मू. (२६६) चत्तारि अस्थिकाया अजीवकाया पं० तं०-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अत्थिकाया अरूविकाया पं० तं०-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy