________________
२१०
स्थानाङ्ग सूत्रम् ४/१/२६२
२४, चउहिं ठाणेहिं क्रोधुप्पत्ती सिता, तं०- खेत्तं पडुचा वत्थु पडुच्चा सरीरं पडुचा उवहिं पडुच्चा, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभ० वेमाणियाणं २४, चउव्विधे कोहे पं० तं० - अनंताणुबंधिकोहे अपचक्खाणकोहे पच्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे, वेमाणियाणं २४, चडव्विहे कोहे पं० तं० - आभोगनिव्वत्तिए अणाभोगनिव्वत्तिते उवसंते अनुवसंते, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे जाव वेमाणियाणं २४
—
वृ. 'चत्तारि कसाये 'त्यादि, तत्र कृषन्ति-विलिखन्ति कर्म्मक्षेत्रं सुखदुःखफलयोग्यं कुर्व्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तं च"सुहदुक्खबहुसईयं कम्म खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति ॥"
119 11
अथवा कषति - हिनस्ति देहिन इति कषं कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति गमयन्ति देहिन इति कषायाः, उक्तं च
-
11911
"कम्मं कसं भवो वा कसमाऔ सिं जओ कसायातो । कसमाययंति व जओ गमयंति कसं कसायत्ति ।।" इति,
तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः कोधमोहनीय कर्मैव येति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम् - अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसन वञ्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनम्अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः ।
‘एव’मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइट्ठिए 'त्ति चतुर्षु आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुः प्रतिष्ठितः, तत्र 'आयपइडिए' त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शननादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठितः आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्रतिष्ठितः, ॥१॥ ( उक्तं च - ) “सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमं च ध्ष्टं यथाऽऽयुष्कम् ॥” इति,
अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुः प्रतिष्ठितत्वस्याभावप्रसङ्गादिति ।
एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतअरणेनोत्पन्नानामिति, एवं मानमायाली मैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां ४ स्वं स्वमुत्पत्तिस्थानं प्रतीत्य- आश्रित्य एवं वस्तु सचेतनादि ३ वास्तु वा-गृहम् शरीरं दुःसंस्थितं विरूपं उपधिर्यद्यस्योपकरणं, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं वमनुबध्नाति - अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी- सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहोनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अलपत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org