SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्यानं. ४, - उद्देशकः-१ २०७ तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तनेति, अनुप्रेक्षणमनुप्रेक्षासूत्रार्थानुस्मरणमिति । अथानुत्प्रेक्षा उच्यन्ते-अन्विति-ध्यानस्य पश्चात्येक्षणानिपर्यालोचनान्यनुप्रेक्षाः, तत्र॥१॥ एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । __नतं पश्यामि यस्याहं, नासी भावीति यो मम ।।" इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-मावना एकानुप्रेक्षा, तथा - ॥१॥ "कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् ।" - इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा - ॥१॥ "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥" एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा - ॥१॥ “माता भूत्वादुहिता भगिनी भार्या च भवति संसारे। व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव ॥" इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासुसंसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । अवशुक्लमाह- 'पुहुत्तवितक्के त्तिपृथक्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्अर्थाद् व्याने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यअनयोगसङ्क्रान्ति रितिवचनात्, सह विचारेणसविचारि,सर्वधनादित्वादिन्समासान्तः, उक्तंच॥१॥ "उप्पायठितिभंगाईपज्जयाणं जमेगदव्बंमि। नाणानयानुसरणं पुब्बगयसुयानुसारेणं ।। ॥२॥ सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्छ । होति पुहुत्तवियकं सवियारमरागभावस्स ॥" इत्येको भेदः, तथा एगत्तवियकेत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयोव्यअनरूपोऽर्थरूपो वा यस्य तदेकत्वदितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो नितिगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च॥७॥ "जं पुण सुनिप्पकपंनिवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पजाए। ॥२॥ अवियारमत्यवंजणजोगंतरओ तयं बिइयसुर्क। पुवगयसुयालंबणमेगत्तवियक्कमवियारं॥" इति द्वितीयः, तथा सहुमकिरिए'त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy