________________
२०५
स्थानं - ४, - उद्देशकः-१
नवरंमनोझं-वल्लभंधनधान्यादि अविप्रयोगः-अवियोगइति द्वितीयमातमिति,तथआतङ्कोरोग इति तृतीयं, तथा परिजुसिय'त्ति निषेविताः ये कामाः-कमनीयाः भोगाः-शब्दादयोऽथवा कामौ-शब्दरूपे भोगाः-गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरेतुतेषांतस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तोयः सतथा,अथवा परिझुसिय'त्ति परिक्षीणोजरादिना सचासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतंसमन्वाहारः, तदपि भवत्यातध्यानमिति चतुर्थं, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति, भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तं, उक्तं च - ॥१॥ "अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स।
धणियं वियोगचिंतणमसंपओगानुसरणंच ॥ ॥२॥ तहसूलसीसरोगाइवेयणाए विओगपणिहाणं ।
तयसंपओगचिंता तप्पडियाराउलमणस्स ।। ॥३॥ इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स ।
अविओगज्झवसाणं तह संजोगाभिलासोय॥ ॥४॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ।
अहम नियाणचिंतणमन्त्राणानुगयमचंतं ।।" इति, आर्तध्यानलक्षणान्याह-लक्षयते-निर्णीयतेपरोक्षमपिचित्तवृत्तिरूपत्वादातध्यनमेभिरिति लक्षणानि, तत्र क्रन्दनता-महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचनं परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्ठसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि यत आह॥१॥ ___ "तस्स कंदणसोयणपरिदेवणताडणाई लिंगाई।
इहानिट्ठवियोगवियोगवियणानिमित्ताई ॥” इति,
- निदानस्यान्येषांच लक्षणान्तरमस्ति, आह च॥9॥ "निंदइ निययकयाइं पसंसइ सविम्हओ विभूईओ।
पत्थेइ तासुरज्जइ तयजणपरायणो होइ॥" इति, अथरौद्रध्यानभेदा उच्यन्ते, हिंसां-सत्त्वानांबधबन्धनादिभिः प्रकारैः पीडामनुबजातिसततप्रवृत्तंकरोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धोवा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानं इति प्रकम इति, उक्तंच-- ॥१॥ “सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं ।
अइकोहग्गहगत्यं निग्धिणमणसोऽहमविवागं ।।" इति, तथा मृषा-असत्यं तदनुबपति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, ॥७॥ (आह च-) "पिसुनाऽसमासब्भूयभूयघायाइवयणपणिहाणं।
मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स ॥" इति, तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत्स्तेयानुबन्धि, आह च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org