SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० स्थानाम सूत्रम् ४/१/२५२ वृ. चत्तारिभासे'त्यादि, जातम् उत्पत्तिधर्मकंतच्च व्यक्तिवस्तु, अतो भाषायाजातानिव्यक्तिवस्तूनिभेदा:-प्रकाराःभाषाजातानि, तत्रसन्तोमुनयोगुणाः पदार्था वातेभ्यो हितंसत्यमेकंप्रथमंसूत्रक्रमापेक्षया भाष्यतेसातया वा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीयं सूत्रक्रमादेव मोसंति प्राकृतत्वान्मृषा-अनृतंनास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावंआत्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-- ॥१॥ “सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा। तविवरीया मोसा मीसा जा तदुभयसहावा ॥२॥ अनहिगया जा तीसुवि सदो चिय केवलो असच्चमुसा। ___ एया सभेयलक्खण सोदाहरणा जहा सुते" इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री म. (२५३) चत्तारि वत्था, पं० तं०-सुद्धे नाम एगे सुद्धे १ सुद्धे नाम एगे असुद्धे २ असुद्धे नाम एगे सुद्धे ३ असुद्धे नाम एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० त०-सुद्धे नाम एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० २०सुद्धे नामंएगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव परक्कमे। वृ. 'चत्तारि वत्येत्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवापूर्वं शुद्धमासीदिदानीमपिशुद्धमेव, विपक्षौ सुज्ञानावेवेति, अथ दार्टान्तिकयोजना एवमेवे'त्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगो'त्ति चत्वारो भङ्गाः समाहताः चतुर्भङ्गी चतुर्भङ्गचा, पुंल्लिङ्गता चात्र प्राकृतत्वात, तदयमर्थो-वस्त्रवञ्चत्वारो भङ्गाःपुरुषेऽपि वाच्या इति । एव'मिति यथा शुद्धात् शुद्धपदे परे चतुर्भङ्ग सदान्तिकंवस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे रूपपदेचचतुर्भङ्गानि वस्त्राणि 'सपडिवक्ख'त्तिसप्रतिपक्षाणि सदान्तिकानिवाच्यानीति, तथाहि-चत्तारिवत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, “एवमेवे त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् । ___ 'चत्तारीत्यादि, शुद्धोबहिःशुद्धमनाअन्तः एवंशुद्धसङ्कल्पः शुद्धप्रज्ञःशुद्धधष्टिःशुद्धशीलाचारः शुद्धव्यवहारःशुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाए-'एव'-मित्यादि । पुरुषभेदाधिकार एवेदमाह मू. (२५४) चत्तारि सुता पं० तं०-अतिजाते अणुजाते अवजाते कलिंगाले। वृ.सुताः-पुत्राः अइजाए तिपितुः सम्पदमतिलमयजातः-संवृत्तोऽतिक्रम्य वा तां यातःप्राप्तो विशिष्टतरसम्पदंसमृद्धतर इत्यर्थः इत्यतिजातोऽतियातोवा, ऋषभवत्, तथा 'अनुजाए त्ति अनुरूपः, सम्पदा पितुस्तुल्योजातोऽनुजातःअनुगतोवा पितृविभूत्याऽनुयातः,पितृसमइत्यर्थः, महायशोवत्, आदित्ययशसा पित्रातुल्यत्वात्तस्य, तथा अवजाए त्तिअपइत्यपसदोहीनः पितुः सम्पदोजातोऽपजातः पितुः सकाशादीषद्धीनगुणइत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात्, तथा 'कुलिङ्गाले'त्ति कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy