SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४७ ॥१ ॥ स्थान-३, - उद्देशकः-२ -तथा प्रज्ञापकस्य-आचायदिदिक् प्रज्ञापकदिक्, सा चैवम्“पत्रवओ जयभिमुहो सा पुव्वा सेसिया पयाहिणओ। तस्सेवऽनुगंतव्वा अग्गेयाई दिसा नियमा" -भावदिक्चाष्टादशविधा॥१॥ “पुढविजलरजलण३वायाभूला५खंधग्गज्पोरबीया य ८। बिति१०चउ११पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥२॥ संमुच्छिम १५ कम्मा १५ कम्मभूमगनरा १७ तहंतरद्दीवा १८। भावदिसा दिस्सइ जं संसारी निययमेयाहि " इति, इहच क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्रच तिर्यग्ग्रहणेन पूर्वाद्याश्चतसएव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषपदेषुचविदिशामविवक्षितत्वात्, यतोऽत्रैववक्ष्यति,-"छहिं दिसाहिंजीवाणंगईपवत्तई त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्-"निव्वाघाएणनियमाछदिसिंति" तत्र तिहिं दिसाहिति सप्तमीतृतीया पञ्चमी वायथायोगव्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, 'एव'मिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः-प्रज्ञापकप्रत्यासन्नस्थानेआगमनमिति, व्युत्क्रान्तिःउत्पत्तआहारः प्रतीतः, वृद्धिः-शरीरस्य वर्द्धनं, निवृद्धिः-शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो-वेदनादिलक्षणः, कालसंयोगो-वर्तनादिकाललक्षणानुभूतः मरणयोगो वा, दर्शनेन-अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो-बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानां अवध्यादिनैवाभिगमो जीवाभिगम इति। 'तिहिं दिसाहिंजीवाणं अजीवाभिगमे पन्नत्ते, तं०-उड्वाए ३ एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षुमनुष्येषुच तत्सम्भवात् तदतिदेशमाह-एव'मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यमनुष्येष्विति भावः एवं चैतानिषड्विंशतिः सूत्राणि भवन्तीति। ____ अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूत्पादाभावादूधिोदिशोर्विवक्षयागत्यागत्योरभावः, तथादर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययाअवध्यादिप्रत्यक्षरुवा दिक्त्रयेनसन्त्येव, भवप्रत्ययाधिपक्षेतुनारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां त्ववधिस्त्येिवेति। . यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धास्त्रसान्निरूपयन्नाह मू. (१७७) तिविहा तसा पं० त०-तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा, पं०२०-पुढविकाइया आउकाइया वणस्सइकाइया ...तिविहे त्यादिस्पष्टं, किन्तुत्रस्यन्तीतित्रसाः-चलनधर्माणः, तत्रतेजोवायवोगतियोगात् त्रसाः, उदाराः-स्थूलाः 'त्रसा' इति त्रसनामकर्मोदयवर्तित्वात्, 'प्राणा' इति व्यक्तीच्छासादि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy