________________
१०८
स्थानाङ्गसूत्रम् २/४/१११
घृ. 'क' इति प्रश्नार्थः, 'अय'मिति देशतः प्रत्यक्ष आसन्नश्चयत्र भगवता मरणादिप्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनंजीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च - "पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं"ति । लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह- 'के अनंते त्यादि, के अनन्ताः लोके? इति प्रश्नः, अन्नोत्तरंजीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति ॥ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह
मू. (११२) दुविहा बोधी पं० २० - नाणबोधी चैव दंसणबोधी चेव, दुविहा बुद्धा पं० तं० - नाणबुद्धा चेव दंसणबुद्धा चेव, एवं मोहे, मूढा ।
वृ. 'दुविहे'त्यादि, बोधनंबोधिः-जिनधर्मलाभः ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति,
एतद्वन्तो द्विधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मतया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं मोहे मूढ'त्ति, यथाबोधिर्बुद्धाश्च द्विधोक्ताःतथा मोहोमूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नतेतं०-नाणमोहे चेवदंसणमोहेचेवज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति,
_ 'दुविहा-मूढा पं०-२०-नाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दसणमूढा चेव' दर्शनमूढा मिथ्यादृष्टय इति । द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैर्द्वविध्यमाह -
मू. (११३) नाणावरणिज्जे कम्मे दुविहे पं० २०-देसनाणावरणिजेचेवसव्वनाणावरणिजे चेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिजे कम्मे दुविहे पं० त० - सातावेयणिज्जे चेव असातावेयणिज्जे चेव, मोहणिजे कम्मे दुविहे पं० २०-दसणमोहणिजे चेव चरित्तमोहणिजे चेव,
आउए कम्मे दुविहे पं० तं० - अद्धाउए चेव भवाउए चेव, नामे कम्मे दुविहे पन्नत्ते तं० - सुभनामेचेव असुभनामेचेव, गोत्तेकम्मेदुविहे पं० तं० - उच्चागोते वेवं नीयागोतेचेव, अंतराइय कम्मे दुविहे पं० २० - पडुप्पन्नविणासिए चेव पिहितआगामिपहं।। __ घृ. 'नाणे त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, आह च॥॥ “सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह।
नाणावरणं कम्मं पडोवमं होइ एवं तु॥" देश-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हिआदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु धनातिच्छादिदित्येषप्रभाकलप्सय केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यतेच ॥9॥ "केवलनाणावरणं १ दंसण छक्कंच मोहबारसगं ।
ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ।" ति, अथवा देशोपघातिसर्वोपघातिफड्डकापेक्षया देशसर्वावरणत्वमस्य, यदाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org