________________
१०६
स्थानाङ्ग सूत्रम् २/४/१०९
॥१॥ “संजमजोगविसन्ना मरंतिजे तं वलायमरणं तु।
इंदियविसयवसगया मरंति जे तं वसतु ।।" इति, एवं 'नियाणे त्यादि, ‘एव मिति दो मरणाई समणेणमित्याद्यमिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानंतत्पूर्वकंमरणं निदानमरणं, यस्मिन् भवेवर्ततेजन्तुस्तद्भवयोग्यमेवायुर्बद्धवा पुर्नमियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति, उक्तं च - ॥७॥ “मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य नेरइए।
सेसाणं जीवाणं तब्मवमरणं तु केसिंचि ।।" इति, 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य यस्मिंस्तछस्त्रावपाटनम्, 'कारणे पुणे'त्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन ‘अप्रतिकुष्टे' अनिवारिते भगवता, वृक्षशाखादावुद्बद्धत्वाविहायसि-नभसि भवं वैहायसंप्राकृतत्वेन तु वेहानसमित्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिंसतद् गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि चतद्भक्ष्य-करिकरभादिशरीरानुप्रवेशेनमहासत्त्वस्य मुमूर्षोर्यस्मिंस्तत् गृध्रपृष्ठमिति, गाथाऽत्र ॥१॥ "गद्धादिभक्खणं गद्धपट्टमुबंधणादि वेहासं।
एते दोन्निऽविमरणा कारणजाए अणुनाया।" इति, अप्रशस्तमरणानन्तरंतप्रशस्तं भव्यानां भवतीति तदाह- 'दो मरणाई' इत्यादि, पादपोवृक्षः, तस्येवछिन्नपतितस्योपगमनम्-अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तत्पादपोपगमनं भक्तंभोजनंतस्यैवनचेष्टायाअपि पादपोपगमनइव प्रत्याख्यानं वर्जनंयस्मिंस्तद्भक्तप्रत्याख्यानमिति, 'नीहारिमंतियद्वसतेरेकदेशे विधीयते तत्ततःशरीरस्य निर्हरणात्-निस्सारणानि रिमं, यत्पुनगिरिकन्दरादौ तदनिर्हरणादनिरिमं । नियमति विभक्तिपरिणामानियमादप्रतिकर्म-शरीरप्रतिक्रियावर्जं पादपोपगमनमिति, भवति चात्र गाथा॥१॥ “सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो।
आउंमि पहुप्पंते वियाणिउंनवरि गीयत्यो।" इति, इदमस्य व्याघातवदुच्यते, निव्याघतिं तु यत्सूत्रार्थनिष्ठतिः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम् - ॥२॥ "चत्तारि विचित्ताई विगतीनिहियाणं चत्तारि ।
संवच्छरे यदोनि उ एगंतरियं च आयामं ।। ॥३॥ नाइविगिट्ठो यतवो छम्मासे परिमियंच आयामं !
अनेऽविय छम्मासे होइ विगिटुंतवोकम्मं ॥ . वासं कोडीसहियं आयामं काउ आनुपुव्वीए।
संघयणादनुरूवं एत्तो अद्धाइ नियमेणं॥ ॥५॥ (यतः)-देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं ।
जायइअट्टज्झाणं सरीरिणो चरमकालम्मि । ॥६॥ (किञ्च)-भावमपि संलिहेइ जिणप्पनीएण झाणजोगेणं ।
भूयत्यभावनाहि य परिवहइ बोहिमूलाई॥
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org