________________
स्थानं २, - उद्देशकः -४
१०१ मू.(१०१) दोहिं ठाणेहिं आता सरीरं फुसित्ताणं निजाति, तं०-देसेणवि आता सरीरं फुसित्ताणं निजाति सव्वेणवि आया सरीरगंफुसित्ताणं निजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निव्वदृतित्ता
वृ. 'दोही'त्यादिकं कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवित्ति देशेनापिकतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात्, 'आत्मा' जीवः, 'शरीरं देहं स्पृष्टा' श्लिष्टा निर्याति' शरीरान्मरणकाले निःसरतीति, 'सव्वेणवित्ति सर्वेण-सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षित्पत्वादिति, अथवादेशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं कोऽर्थः ? - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निर्याति, स च संसारी, 'सर्वेणापि सर्वतयाऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, सच सिद्धो, वक्ष्यतिच-“पायनिजाणा निरएसु "उववजंती"त्यादि, यावत् “सव्वंगणिजाणा सिद्धेसु"त्ति आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते
एव"मित्यादि, ‘एव'मिति 'दोहिं ठाणेही त्याघभिलापसंसूचनार्थः, तत्र देशेनापि कियदिमरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेणवित्तिसधैरपिगेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः-सर्वं शरीरं स्फोरयित्वासर्वाङ्गनिर्याणावसर इति।स्फोरणाच सात्मकत्वं स्फुटं भवतीत्याह
“एव'मित्यादि, “एव'मिति तथैव देशेन-आत्मदेशेन शरीरकं 'फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागती सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरकं देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्तास्फोटयित्वा विशूर्णं कृत्वा, तत्रदेशतोऽक्ष्यादिविघातेन सर्वतःसर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित्करोतीत्याह- एव'मित्यादि, एव मिति तथैव संवट्टइत्ताणं त्तिसंवर्त्य सङ्कोच्यशरीरकंदेशेनेलिकागती शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौसर्वात्मप्रदेशानांशरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्यहस्तादिसोचनेन सर्वतः-सर्वशरीरसोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तन कुर्वन् शरीरस्य निवर्तनं करोतीत्याह
एव 'निव्वट्टयित्ताणं'ति, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्वत्येत्यर्थः, तत्र देशेनेलिकागती सर्वेणगेन्दुकगतो, अथवा देशतः शरीरं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्वाणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षयादेशतः शरीरम् औदारिकादि निवर्त्य तैजसकामणेत्यादायैव, तथा सर्वेण-सर्वं शरीरसमुदायंनिवर्त्य निति, सिध्यतीत्यर्थः। अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, तेच यथा स्युस्तथा दर्शनयत्राह
मू. (१०२) दोहिं ठाणेहिं आता केवलिपनत्तं धम्म लभेजा सवणताते, तं-खतेण चेव उवसमेण चेव, एवंजाव मनपजवनाणं उप्पाडेजा तं०-खतेण चेव उवसमेणं चेव।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org