________________
१००
स्थानाङ्गसूत्रम् २/४/१००
कम्मं बंधति, तं०-रागेण चैव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेति, तं०अब्भोवगमितातेचेव वेतणातेउवक्कमितातेचेववेयणाते, एवं वेदेतिएवं निजरेति-अब्भोवगमिताते चेव वेयणाते उवक मिताते चेव वेयणाते
घृ.प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह॥१॥ “माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् ।
धो मानश्च पुनद्वैष इति समासनिर्दिष्टः" इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकर्मपुद्गलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनंच प्रेमबन्धः, एवंद्वेषमोहनीयस्य बन्धोद्वेषबन्ध इति, उक्तं हि,-"जोगापयडिपदेसं ठितिअनुभागंकसायओ कुणइ"त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह
_ 'जीवाणमित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनांसयोगप्रत्यय एव, सतुबन्धत्वेन न विवक्षिश्रतो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हिकर्मणोऽसौतदल्पस्थितिकादिविशेषणम्, ॥१॥ (उक्तंच)- “अप्पं बायर मउयं बहुंच रुक्खं च सुकिलंचेव।
मंदं महव्वयं तिय सायाबहुलं च तं कम्मं" (इति), अल्पंस्थित्याबादरंपरिणामतः मृद्वनुभावतः बहुप्रदेशैः मन्दं लेपतो वासुकावत्, महाव्ययं सपिगमात् । एतदेव दर्शयन्नाह
'जीवा णमित्यादि, जीवाः-सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्या; कारणाभ्यां पापम्-अशुभमशुभमवनिबन्धनत्वात्, नतुनिरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बजन्ति-स्पृष्टाद्यवस्थां कुर्वन्ति, रागेणचैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिथ्यात्वाविरतिकषाययोगाबन्धहेतवः तत्कथं कषाया एव इहोक्ता इति?, उच्यते, कषायाणां पापकर्मबन्धंप्रतिप्राधान्यख्यापनार्थं, प्राधान्यंचस्थित्यनुभागप्रकर्षकारणत्वात्तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद, उक्तञ्च॥१॥ "को दुक्खं पावेजा कस्स व सोक्खेहिं विम्हओ होना ?।
को वा न लहेज मोक्खं ? रागद्दोसा जइन होजा" इति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह
'जीवे'त्यादि गतार्थम्, नवरं उदीरयन्ति-अप्राप्तावसरंसदुदये प्रवेशयन्ति, अभ्युपगमेनअङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनयापीडयाउपक्रोण-कर्मोदीरणकारणेननिर्वृत्ता तत्रवाभवाऔपक्रमिकीतया-ज्वरातीसारादिजन्यया,
'एव'मितिउक्तप्रकारतएव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितंसदिति, निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति। निर्जरणेचकर्मणोदेशः सर्वथावाभवान्तरेसिद्धौवा गच्छतःशरीरानिर्याणं भवतीति सूत्रपञ्चकेन तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org