SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/४/९९ विवरान्तरतः किमपिशुक्लं पश्यति तदा किमियंपताका किंवाबलाकेत्येवंप्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह वभेदनयाश्रयणाजीवाइयेत्याधुक्तम्, इहचसमयावलिकालक्षणार्थद्वयस्यजीवादिद्वयात्मकतया भणनाद्विस्थानकावतारोहश्यः, एवमुत्तरसूत्राण्यपिनेयानि, विशेषतुवक्ष्याम इति, आणापाणू' इत्यादि, ‘आनप्राणा विति-उच्छासनिःश्वासकालः सङ्ख्यातावलिका-प्रमाणाः, आह च॥१॥ “हस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई" तथा स्तोकाः सप्तोच्छ्वासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, 'एव'मितियथाप्राक्तने सूत्रत्ये जीवा इतिचअजीवा इतिच प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रेष्वित्यर्थः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, उक्तञ्च॥१॥ “सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। __लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥२॥ तिनि सहस्सा सत्तय सयाणि तेवत्तरिंच ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अनंतनाणीहिं" इति, अहोरात्राः त्रिंशन्मुहूर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानिऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणिवर्षशतादीनिप्रतीतानि, पूर्वाङ्गानिचतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणिपूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम्॥१॥ "पुब्बस्स उपरिमाणं सयरिंखलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं" (इति), पूर्वाणिचतुरशीतिलक्षगुणितानित्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा॥१॥ "इच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणितं च । काऊणं तइवारे पुव्वंगईणमुणसंखं" । शीर्षप्रहेलिकान्तः सांव्यवहारिकः सद्ध्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमायाः पश्चिमे भागे नरतिरश्चां चायुर्मीयत इति, किञ्चशीर्षप्रहेलिकायाः परतोऽप्यस्तिसङ्ख्यातः कालः,सचानतिशायिनांनव्यवहारविषय इतिकृत्वौपम्ये प्रक्षिप्तः, अत एवशीर्षप्रहेलिकायाः परतः पल्योपमाडुपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि-असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति ___ कालविशेषवत् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह-गामे' त्यादि, इह च प्रत्येकंजीवाइयेत्यादिरालापोऽध्येतव्यो, ग्रामादीनांचजीवाजीवता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy