________________
५०
आचाराङ्ग सूत्रम् 9/19/३/२० ग्राह्यस्तं विहाय' त्यक्त्वा श्रद्धामनुपालयेदि तिमीलनीयं तत्रयस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनुश्रद्धानुपालनं कार्यं स एवाभिधीयते न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह -
मू. (२१) पणया वीरा महावीहिं।
वृ. 'प्रणताः' प्रह्वाः ‘वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीथिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषः प्रहतः, तं प्रति पह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविनम्भोविनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते ।।उपदेशान्तरमाह-लोकंचैत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, यथापि भगवदज्ञेयमिति श्रद्धातव्यमित्याह -
मू. (२२) लोगं च आणाए अभिसमेचा अकुओभयं।
वृ.अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् ‘आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्यकायादयो जीवाः, इत्येवामवगम्य न विद्यते कुतश्चिद्धेतोः-केनापि प्रकारेणजन्तूनां भयं यस्मात् सोऽयमकुतोभयः-- संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ।।
अप्कायलोकमाज्ञयिाअभिसमेत्य यत्कर्त्तव्यं तदाह -
मू. (२३) से बेमि नेव सयं लोगं अभाइक्खिजाणेव अत्ताणं अब्भाइखिज्जा, जे लोयं अभाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्थाणं अब्भाइक्खइ से लोयं अन्भाइक्खइ।
वृ. सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोकः' अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेका नन्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं, नैतदस्ति, प्रसाधितमपांप्राक्सचेतनत्वंयथाहि अस्य शरीरस्याहंप्रत्यादिभिहेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमकायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् । अथापि स्याद्, आत्मनोऽपि शरीराधिष्टातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियत्तीति दर्शयति
'नेव अत्ताणंअब्भाइक्खेज्जा' नैव आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धंज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीत' अपहनुवीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाता-ऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमतकफसधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति, तथान ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचनपरिस्पन्दवता तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवंकुतकमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अतएवंविधोपपत्तिसमधिगतमात्मानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org