SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ आचाराङ्ग सूत्रम् १/-/१/२/१४ 7 11911 वाच्यः यस्माद्यावानार्त्तः स सर्वोऽपि परिद्यूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधा- द्रव्यभावभेदात्, तत्र सचितद्रव्यपरिघूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः, भावपरिघून औदयिकभवोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकलः ?, अनन्तगुणपरिहाण्या, तथाहिपञ्चचतुस्त्रिद्वये केन्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मानिगोदापर्य्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च "सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥ तस्मात्प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोऽग्भिः ॥” सच विषयकषायार्त्तः प्रशस्तज्ञानद्यूनः किमवस्थो भवतीति दर्शयति- 'दुस्संबोध' इति, दुःखेन सम्बोध्यते - धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधी यो बोधयितुमशक्यो ब्रह्मदत्तवत् किमित्येवम् ?, यतः 'अवियाणए' त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह 'अस्मिन् पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्राद्भीते वा 'व्यथभयचलनयो' रितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थे 'ति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्' विभिन्नेषु कार्येषूत्पन्नेषु 'पश्ये 'ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्त शैल्याएकादेशेऽपि प्राकृति बह्वादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन्' पृथिवीकार्य विषयभूते सामर्थ्यात् पृथिवीकायं 'परितापयन्ति' परि-समन्तात्तापयन्ति पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कशचिल्लोको विषयकषायादिभिरार्तोऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यारा विषयजीर्णदेहादिभिः सुखाप्तऽस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति पीडयन्तीति सूत्रार्थः ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुंन पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्तुकाम आह ॥२॥ ― - - मू. (१५) संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्यं समारंभेमाणा अणेगरुवे पाणे विहिंसइ वृ. 'सन्ति' विद्यन्ते 'प्राणाः 'सत्वाः 'पृथग्' पृथग्भावेन, अड्डुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सितावा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह- 'लज्जमाणा पुढो पास' त्ति, लज्जा द्विधालौकिकी लोकोत्तराच, तत्र लौकिकी, स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम् - " लज्जा दया संजम बंभचेर 'मित्यादि, लज्जमाना:- संयमानुष्ठानपराः, यदिवापृथिवी - कायसमारम्भरूपादसंयमानुष्ठानल्लज्जमानाः पृथगिति प्रत्यक्षज्ञानिनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy