________________
श्रुतस्कन्धः-२, चूडा-२, सप्तकक:६
४२९ -से सियापरोअंकंसिवा २ तुयट्टावित्ता हारं वा अद्धहारंवा उरत्यं वा गेवेयं वामउडवा पालंबं वा सुक्नसुत्तं वा आचिहिज्ज वा पिणहिज्ज वा नो तं०२।
-से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाइं आमजिज वा प० नो तं साइए ।। एवं नेयव्वा अन्नमन्त्रकिरियावि ।।
वृ. पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि-“सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव आस्वादयेत्' अभिलषेत्, मनसान तत्राभिलाषं कुर्यादित्यर्थ, तथानतांपरक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति
___ 'से' तस्यसाधोर्निष्प्रतिकर्मशरीरस्यसः परः' अन्योधर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापिनियमयेदिति, एवंस साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तं-रञ्जयन्तं, तथा तैलादिना प्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्'मनसा नाभिलषेत्नापि नियमयेत्-कारयेद्वाचा कायेनेति
शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सझेपरुचिसूत्रकारोऽतिदिशति-'एवम्' इतियाः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रिययान विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ।
मू. (५०७) से सिया परो सुद्धणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे ।
-से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वामूलाणि वा तयाणि वा हरियाणि वा खणित्तुकड्ढित्तुवाकड्ढावित्तु वातेइच्छंआउट्टाविजनोतंसा०२ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि-तिबेमि।।
वृ. 'से' तस्य साधोः स परः शुद्धेनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा व्याध्युपशमम् 'आउट्टे'त्ति कर्तुमभिलषेत् । तथास परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत्।
इह पूर्वकृतकर्मफलेश्वराजीवाः कर्मविपाककृतकटुकवेदनाः कृत्वापरेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तच्च । ॥१॥"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक्, सहसदिति विवेकोऽन्यत्र भूयः कुतस्ते ।। शेषमुक्तार्थं यावदध्ययनपरिसमाप्तिरिति ।।
चूडा-२ सप्तककः-६ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org