________________
३७८
आचाराङ्ग सूत्रम् २/१/२/३/४२१
कर्मोपादानकर्मभिः, तद्यथा-'छादनतः दर्भादिना, लेपनतः' गोमयादिनासंस्तारकम् अपवर्तकमाश्रित्य, तथाद्वारमाश्रित्य बृहल्लधुत्वापादानतः,तथा द्वारस्थगनं-कपाटमाश्रित्य, तथापिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिअतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत, तद्ग्रहे निषिद्धाचरणमाहेतबद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयोदुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम् - ॥१॥ मूलुत्तरगुणसुद्धं थीपसुपंडविवज्जियं वसहिं ।
सेवेज सव्वकालं विवजए हुंति दोसा उ मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति ।
'से' इत्यादि, तत्र च भिक्षवः चरिताः- निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारकःअर्द्धतृतीय हस्तप्रमाणः, यदिवा शयनं शय्या तदर्थं संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः-संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः ‘व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषुतेषुतैश्च श्रावकैरेवंभूतेषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसति कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु ‘सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतांछलनां विदध्युः, तद्यथा
प्राभृतिकेव प्राभृतिका-दानार्थंकल्पिता वसतिरिह गृह्यते, साच तैर्गृहस्थैः ‘उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा परिमाइयपुव्व'त्तिपूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथापूर्वमेवास्माभिरियं परित्यक्तेति, यदिच भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपियथाऽवस्थितवसतिगुणदोषादिकंगृहस्थेन पृष्टः साधुव्याकुर्वन्-कथयन्सम्यगेव व्याकरोतिय, यदिवैवं व्याकुर्वन्सम्यग् व्याकर्ताभवति?,आचार्यआह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति॥ तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह
मू. (४२२) से भिक्खू वा० से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुडुदुवारियाओ निययाओ संनिरूद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वाप० पुरा हत्थेण वा पच्छ पाएण वा तओ संजयामेव निक्खमिज वा २, केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अनिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज्ज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज्ज वा पाणाणि वा ४ जाव चवरोविज्ज वा, अह भिक्खूणं पुचोवइट्ठजंतह० उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा।।
वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'शुद्रिकाः' लध्व्यः तथा क्षुद्रद्वाराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org