SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशक ९ - ३५९ वा उवक्खडिज वा तं चेगइओ तुसिणीओ उवेहेजा, आहडमेव पञ्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव आलोइज्जा आउसोत्ति वा मइणित्ति वा ! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, स सेवं वयंतस्स परी आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्टु दलइज्जा तहप्पगारं असणं वा० अफासूयं ० वृ. स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा ग्रामं वा यावद्राजधानीं वा, अस्मिंश्च ग्रामादौ ‘सन्ति' विद्यन्ते कस्यचिद्भिक्षोः 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी -गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थं न प्रविशेत् नापि निष्क्रामेत्, स्वमनीषिकापरिहारार्थमाह- केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतः पूर्वमेवैतत् 'पर्यालोचयेत्' तथा 'एतस्य' भिक्षोः कृते 'परः 'गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढीकयेदुपकरणजातम्, 'उवक्खडेज'त्ति तदशनादि पचेद्वेति, 'अथ' अनन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव- भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तद्दर्शयति- 'से तमादाये 'ति 'सः' साधुः 'एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत्, अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'एसियं' ति एषणीयम् उद्गमादिदोषरहितं 'वेसियं' ति वेषमात्रा - दवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं' भिक्षाम् 'एषित्वा' अन्विष्य एवं भूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा ॥ १ ॥ "धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति दस एए ॥ २ ॥ पुव्विपच्छासंथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पारणाय दोसा सोलसमे मूलकम्मे य १६ तत्राशनाद्यर्थ दातुरपत्योपकारे वर्त्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम-अङगुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्तो वणीमगपिण्डः ५, सूक्ष्मेतचिकित्सयावाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्वं पश्चाद्वा दातुः 'कर्णायते भवानि' त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तश्रृर्णपिण्डः १४, योगाद् -अञ्जनादेरवाप्तो योगपिण्डः १५, यदनुष्ठानादूगर्भशातनादेमूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, त देवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासैषणादोषाश्चामी- “संजोअणा १ पमाणे २ इंगाले ३ घूम ४ कारणे ५ चैव । " तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदघतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमा हारमाहारयतः प्रमाणदोषः २, तथाऽऽहाररागाद्गाद्धर्याद् भुञ्जनस्य चारित्राङ्गारत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy