________________
आचाराङ्ग सूत्रम् २/१/१/८/३८२ कणिकाभिर्मश्राः कुक्कुसाः 'कणपूयलिअं 'ति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभि संभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ चूडा-१, अध्ययनं -१ उद्देशकः-८ - समाप्तः
३५८
-: चूडा-१, अध्ययनं-१, उद्देशक:- ९:
वृ. उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते
मू. (३८३) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयंवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा ।
से जं पुण इमं अम्हं अप्पणो अट्टाए निट्टियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्घोसं सुञ्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं० ॥
वृ. 'इहे 'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादी दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्वं भवेत् 'णम्' इति वाक्यालङ्कारे, ये इमे श्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्र धारिणः 'व्रतवन्तः ' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्धाद्युत्तरगुणोपेताः 'संयताः' इन्द्रियनोइन्द्रियसंयमवन्तः ‘संवृताः' पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता (संयताः ।
एतेषा च न कल्पे आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितंसिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः णिसिरामो 'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेतयिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत्, तदेवं साधुरेवं 'निर्घोषं' ध्वनिं स्वत एव श्रुत्वाऽन्यो वा कुतश्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ किञ्च -
मू. (३८४) से भिक्खू वा वसमाणे वा० गामाणुगामं वा दूइजमाणे से जं० गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा रायहाणिंसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंयुया वा परिवसंति, तंजहा- गाहावई वा जाव कम्म ० तहप्पगाराई कुलाई नो पुव्वामेव भत्ताए वा निक्खमिज्ज वा पविसेज वा २, केवली बूया- आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज्ज वा उवक्खडिज्ज वा, अह भिक्खूणं पुव्योवइट्ठा ४ जं नो तहप्पगाराई कुलाई पुव्वामेव भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा २, से तमायाय एगंतमवक्क मिज्जा २ अणावायमसंलोए चिट्टिजा ।
से तत्थ कालेणं अनुपविसिञ्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिज्जा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org