________________
३४४
आचारागसूत्रम् २/9/9/४/३५८ व्रजतेत्येवं कुर्यात्, यदिवातत्रैकस्य वास्तव्यस्यभिक्षोः पुरःसंस्तुताः' भ्रातृव्यादयः पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह।
तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणा कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वनिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्ड' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगमयावत्सिहरिणीं वेति, नवरंमद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृघ्नुतया मधुमद्यमांसान्यप्याश्रयेद तस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः क्वथितोऽक्वथितो वा शिखरिणी मार्जिता, तल्लब्धपूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रह संलिह्य निरवयवं कुत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृतवदनः प्राधूर्णकभिक्षुमि सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह___सः' भिक्षु तत्र'ग्रामादौ प्राधूर्णकभिक्षुमिसार्द्ध कालेन' भिक्षावसरेणप्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इतरेतरेभ्यः' उञ्चावचेभ्यः कुलेभ्यः ‘सामुदानिकं भिक्षापिण्डम् ‘एषणीयम्' उद्गमादिदोषरहितं वैषिकं' केवलवेषावाप्तधात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः 'सामण्यं' संपूर्णो भिक्षुभाव इति॥
चूडा-१, अध्ययन नं-१, उद्देशक-४ समाप्त :
चूडा-१, अध्ययन नं-१, उद्देशक-५ वृ. उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह
मू. (३५९) से भिक्खू वार जाव पविढे समाणेसेज पुणजाणिजा-अग्गपिंडंउक्खिप्पमाणं पेहाएअग्गपिंड निखिप्पमाणं पेहाए अग्गपिंड हीरमाणं पेहाएअग्गपिंडंपरिभाइजमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिद्वविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्यऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंकमामि, माइहाणं संफासे, नो एवं करेजा।
वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुक्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा हियमाणं नीयमानंदेवतायतनादौ, तथा परिभज्यमान' विभज्यमानं स्तोकस्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिक्षुक्षिप्यमाणं, तथा 'पुरा असिणाइव'त्ति-पुरा पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः।
तथा पूर्वमपहतवन्तो व्यवस्थायऽव्यवस्थयावा गृहीतवन्तः, तदभिप्रायेण पुनरपिपूर्वमिव वयमत्रलप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं' ति त्वरितं त्वरितमुप-संक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्या- सार्थं अहमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org