________________
आचाराङ्ग सूत्रम् २/१/१/४/३१६
मू. (३५६) से भिक्खू वा (२) जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुवीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति तत्थाइन्ना वित्ती नो पत्रस्स निक्खमणपवेसाए नो पत्रस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नञ्चा तहप्पगारं पुरेसंखडिंवा पच्छासंखडिं वा संखडि संखडिपडिआए नो अभिसंधारिज्जा गमणाए ।
से भिक्खू वा (२) से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपसेवाए पन्नस्स वायणपुच्छणपरियदृणुप्पेहधम्मानु ओगचिंताए, सेवं नञ्चा तहप्पगारं पुरेसंखडिं वा अभिसंधारिज गमणाए ।
वृ. समिक्षु क्वचिद्ग्रामादौ भिक्षार्थप्रविष्टः सन् यद्येवंभूता सङ्घडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् दमनायेत्यन्ते क्रिया, याद्दग्भूतां च सङ्घडिं न गन्तव्यं तां दर्शयति-मांसमादी प्रधानं यस्यां सा मांसादिका तामिति, इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्ती मांसप्रचुरां सङ्घडिं कुर्युः तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चित्रयेत्, तञ्च नीयमानं दृष्ट्वान तत्रगन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथाय एवं मांसखलमिति, यत्र सङ्घडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा 'आहेणं' तियद्विवारोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रिते, 'पहेणंति वध्वा नीयमानाया यत्पितृगृहभोजन समिति,
'हिंगोल' तिमृतकभक्तं यक्षादियात्राभोजनं वा, 'संमेलं 'ति परिजनसन्मानभक्तं गोष्ठीमक्तं वा, तदेवंभूतां सङ्घडिं ज्ञात्वा तत्रच केनचित्स्वजनादिनातन्निमित्तमेव किञ्चिद् 'हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद्, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयतिगच्छतस्तावदन्तरा - अन्तराले 'तस्य' भिक्षोः 'मार्गा' पन्थानो बहवः प्राणाः प्राणिनः पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बह्नवश्याय बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खऽि स्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिमष्यन्त तथोपागच्छन्ति च तत्राकीर्णा चरकादिभिः ।
३४२
'वृत्ति' वर्त्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमण प्रवेशाय वृत्ति कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्ति कल्पते, नतत्र जनाकीर्णे गीतवादित्रसम्भवात स्वाध्यायादिक्रियाः प्रवर्तन्त इति भावः, भिक्षुरेवं गच्छगतापेक्षया बहुदोषा तथा प्रकारां मांसप्रधानादिकां पुरःसङ्घडिं पश्चात्सडिं वा ज्ञात्वा तठप्रतिज्ञया नाभिसन्धारयेद्गमनयेति ॥
साम्प्रतमपवादमाह स भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यं वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात् - मांसादिकमित्यादि पूर्ववदालापका यावदन्तराअन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकः, तदेवमल्पदोषां सङ्घडिं ज्ञात्वा मांसादिदोषपरिहरण समर्थ सति कारणे तव्प्रतिज्ञयाऽभिसंघारयेद्गमनायेति । पिण्डाधिकारेऽनुवर्त्तमाने भिक्षागोचरविशेषमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org