________________
३४०
आचाराङ्ग सूत्रम् २/१/१/३/३५१
दोषाः, तद्यथा - पादेन परस्य पाद आक्रान्तो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रं ' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत् कायेनापरस्यचरकादेः कायः सङ्क्षोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्था वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामीअनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वाप्रभूतत्वाञ्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद् ।
यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुगृह्णीयात, तस्मादेतान् दोषानभिसंप्रधार्य संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णाभवमा वा सङ्घडिं विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह
मू. (३५२) से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्झा असणं वा ४ एसणिजे सिया अनेसणिजे सिया वितिगिंछसमावन्त्रेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।।
वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथाविचिकित्सा-जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया- उद्गमादिदोषदुष्टर्थमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या - अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम् अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे "जं संके तं समावज्जे” इति वचनान्न प्रतिगृह्णीयादिति ।।
साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह-
मू. (३५३) से भिक्खू गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज वा ॥ से भिक्खू वा २ बहिया विहारभूमिं वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा ॥ सेभिक्खूवा २ गामाणुगामंदूइजमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जिज्जा ।।
वृ. स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गुहपतिकुलं प्रवेष्टुकामः 'सर्वं' निरवशेषं 'भण्डकं' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्कामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा- "दुग तिग चउक्क । पंचग नव दस एक्कारसेव बारसहे" त्यादि । तत्र जिनकल्पिको द्विविधः -- छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिपाणेः शक्त्यनुरुपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वकूत्राणार्य क्षौमपटपरिग्रहात्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौणिकपटपरिग्रहाच्चतुर्धा,
तथाऽसहिष्णुतरस्य द्वितीय - क्षौमपटपरिग्रहात्पञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रिनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेणे यथायोगं नवविधोदशविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org