________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक : ३
३३९
अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्यस्तथाप्रकारां सङ्घडिं पुरः सङ्घडिं पश्चात्सङ्घडिंवा सङ्घडिंज्ञात्वा सङ्घडिप्रतिज्ञया 'नामिसंघारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थ ॥ तथा
यू. (३५०) सेभिक्खूवा २ अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयमूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइद्वाणं संफासे, नो एवं करिज्जा। सेतत्थ कालेण अनुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा ।।
वृ. समिक्षुरन्यतरा पुरः सङ्घडिं पश्चात्सङ्घडिं वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्घडिरस्ति, 'नो संचाएइ' त्तिन शक्नोति 'तत्र' सङ्घडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणियं' ति भैक्षं, किम्मूतम्य- 'एषणीयम्' आधाक-र्मादिदोषरहितं 'वेसियं' ति केवलकरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम्, एवंभूतं पिण्डपातम् - आहारं परिगृह्याभ्यवहर्तुन शक्नोतीतिसम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं ? यद्यपी तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सखिडिमेव गच्छेत्, एवंच मातृस्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद् - ऐहिकामुष्मिकापायभयात् सङ्घडिग्रामगमनं न विदध्यादिति । यथा च कुर्यात्तथाऽऽह 'सः' भिक्षु 'तत्र' सङ्घडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिकं' समुदानं भिक्षा तत्र भवं सामुदानिकम् 'एषणीयं' प्रासुकं 'वैषिकं' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति । पुनरपि सङ्घडिविशेषमधिकृत्याह
मू. (३५१) से भिक्खू वा २ स जं पुण जाणिज्जा गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा जाव रायहाणिसिं वा संखडी सिया तंपि य गामं वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए। केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अनुपविस्समाणस्स पाएण वा पाए अक्कतपुव्वे भवइ, हत्थेण वा हत्थे संचालियपुब्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभियपुव्वे भवइ !
दंडेण वा अट्टीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुव्वेण वा भवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिजे वा परिभुत्तपुव्वे भवइ, असि वा दिज्रमाणे पडिग्गाहियपुव्वे भवइ तम्हा से संजए नियंठे तहप्पगारं आइनावमा णं संखडिं संखडिपडियाए नो अभिसंघारिजा गमणाए ।
वृ.स भिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्घडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपिग्रामादिकं सङ्घडिप्रतिज्ञया 'नाभिसन्धारयेद्ममनाय' न तत्र गमनं कुर्यादित्यर्थ ॥ तद्गताश्च दोषान् सूत्रेणैवाह-केवली ब्रूयाद्यथैतदादानं - कर्मोपादानं वर्त्तत इति दर्शयति-साच सङ्घडि आकीर्णा वा भवेत् - चरकादिभि सङ्कुला 'अवमा' हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णाभवमांचानुप्रविशतोऽमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org