________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं -१, उद्देशक:२
३३७ स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ? - 'अनाद्रियमाणः' सङ्खडिमनादरयन्नित्यर्थ, एतदुक्तं भवति-यत्रैवासी सङ्घडि स्यात्तत्रर न गन्तव्यमिति, क व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात, करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटे, कर्बर्ट-कुनगरं, सर्वतोऽर्द्धयोजन-परेण स्थितग्राममडम्बंपत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रा-देरुत्पत्तिस्थानं, द्रोणमुखं-यस्य जलस्थलपथावुभावपि, निगमा वणिजस्तेषां स्थानं नैगमम्, आश्रम-यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयंतिष्ठति, सनिवेशोयत्रप्रभूतानांभाण्डानां प्रवेश इति ।
तत्रैतेषुस्थानेषुसङ्खडिं ज्ञात्वा सङ्घडिप्रतिज्ञया नगमनम् अभिसंधारयेत्' न पर्यालोचयेत्, किमिति?, यतः केवली ब्रूयात् ‘आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरंवा 'आययणमेयंति आयतनं-स्थानमेतदोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडिं संखडिपडियाए'त्ति, याया सङ्खिडस्तांताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे तेषां मध्येऽन्यतमो दोषः स्यात, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टमभ्याहृतमि एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्तैवमभिसंधारयेत्-यथाऽयं यतिर्मप्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचिप्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति । किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह
'असंयतः' गृहस्थः सच श्रावकः प्रकृतिभद्रकोवा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराःसङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा सभाः शय्यावसतयो विषमाः सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थं वा व्यत्ययं कुर्यात्, तथाप्रवाताः शय्याः शीतथभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तःमध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कर्याद् ।
यथैषः- साधुःशय्यायाः संस्कारे विधातव्ये विलुंगयामो' त्ति निर्ग्रन्थः अकिञ्चन इत्यतः सगृहस्थः कारणेसंयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडि विज्ञाय सा पुरःसङ्खडि पश्चात्सङ्घडिर्वा भवेत, जातनामकरणविवाहादिका पुरःसङ्कडि तथा मृतकसङ्घडिपश्चात्सङ्घडिरिति, यदिवापुरः अग्रतः सङ्खडिर्भविष्यतिअतोऽनागतमेव यायात, वसतिं वा गृहस्थः संस्कुर्यात्, वृत्ता वा सङ्घडिरतोऽत्रतच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्घडिं सङ्घडिप्रतिज्ञया 'नोऽमिसंधारयेत् न पर्यालोचयेद्गमनक्रियामिति, एवं तस्यभिक्षोः सामण्यं -- सम्पूर्णतया भिक्षुभावस्य यत्सर्वथा सङ्खडि वर्जनमिति॥
चूडा-१, अध्ययनं-१, उद्देशक :२ समाप्तः
[122]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org